________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
तत्र पाल्योऽर्जुनो राजन्यदि मे प्रियमिच्छसि। तेजोवधश्च ते कार्यः सौतेरस्मजयावहः ।
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ' ॥ १० ॥ इति इति दैवबलेऽपि नीत्यपरित्यागाभिधानं तृतीयं कुसुमम् ।।
[४] इयत्ताडम्बरेण यत्र भारोऽयं विहितः कासौ नीतिरिति तत्स्वरूपमाह । अमलेत्यादिः-- असौ नीतियद्यपि चतुरप्रवृहस्पत्यादिभिः स्वस्वरूच्या बहुलक्षणा प्रोक्ता तथापि अन्ततःपर्यवसानेऽमला प्रज्ञासावित्यर्थः । स्वपरहितत्वं चामलत्वं । यया प्रज्ञया स्वपरहितं निश्चयेन भवेदसौ प्रज्ञा नीतिरित्यर्थः । तथा च सुशीलशैल्याम् ॥
'नयोऽयं निश्चिता लोके यासावद्या निसर्गधीः।
तयात्र चरता लोके कासौ सिद्धिर्न हस्तगा' ॥ १॥ इति आद्या निसर्गधीरिति विकल्पकल्लोला कलुषिताय यासावीश्वर ऐश्वर्य समास्फालयस्वपरहितं कुरुत इति । कथमत्र भरो न विधीयत इति भावः । इत्थं च अमलेति विशेषणात्सर्वतः शोधितापि कौटिल्यमलभरिताधीरनर्थकारणमिति नीत्याभास एव असाविति मन्तव्यम् । तथा च युधिष्ठिरं संजयनीतिवाक्यजातं सर्वतः शोधितमपि प्रज्ञाभास एव । यथाः'न चेद्भागं कुरवोऽन्यत्र युद्धा.
प्रयच्छन्तीमे तुभ्यमजातशत्रो । भैक्षचर्यामन्धकवृष्णिराज्ये
श्रेयो मन्ये न तु राज्यं कदापि ॥२॥ अल्पकालं जीवितं यन्मनुष्ये
महानावं नित्यदुःखं चलं च । भूयश्चतद्वयसो नानुरूपं
तस्मात्पापं पाण्डव मा प्रकार्षीः ॥ ३ ॥
For Private and Personal Use Only