________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
शल्यराजे पाण्डवान्समागतान्निशम्य उम्मेलनार्थमागते दुर्योधनेन चार्धमार्गादेव स्वीकृत इति दैवं बलिष्ठं मत्वा युधिष्ठिरो नयान्नाचलदिति । तथा च उद्योगपर्वणि शल्य उवाच । :
'युधिष्ठिरस्य पुरुषाः किं नु चक्रुः सभामिमाम् । आनीयन्तां सभाकाराः प्रदेयारे हि मे मताः ॥ १ ॥ गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥ २ ॥ तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।
परिष्वज्याब्रवीत्प्रीत इष्टार्थो गृह्यतामिति ' ॥ ३ ॥ दुर्योधनः
'ऋतवान्भव कल्याणवरो वै मम दीयताम् ।
सर्वसेनाप्रणेता मे भवान्भवितुमर्हति' ॥ ४ ॥ वैशम्पायनः
‘कृतमित्यब्रवीच्छल्यः किमन्यस्क्रियतामिति । कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥ ५ ॥ शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ ६ ॥ ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।
तच्च शुश्रूषितं सर्व वरदानं च भारत ' ॥ ७ ॥ इति दैवावनिष्टे जाते बुद्धिमद्भिस्तथा नीतौ समाधेयं यथा परस्य प्रतिज्ञातोऽर्थोऽपि पूर्णोभवेन्न च स्वार्थच्युतिरित्यत्र निदर्शनं युधिष्ठिरः । युधिष्ठिर उवाच
'सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना । दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् । एकं त्विच्छामि भद्रं ते क्रियमाणं महामते ॥ ८॥.. भवानिह महातेजा वासुदेवसमो युधि । .... कर्णार्जुनाभ्यां सं [ ५ अ ] प्राप्ते द्वैरथ्ये राजसत्तम । कर्णस्य भवता कार्य सारथ्यं नात्र संशयः ॥९॥
For Private and Personal Use Only