________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
नीतिकल्पतरुः। अहार्यश्चानृशंसश्च दृढभक्तश्च पार्थिवे ।
ताम्बूलादिधरः कार्यो दासी वाप्यथ तद्गुणा ॥ १ ॥ अहार्यः लोभदानादिनापरैः प्रतारयितुमशक्यः । भारते 'अभिप्रायं यो विदित्वा हि भर्तुः सर्वाणि कर्माणि करोत्यत[८७अन्द्रः ।
वक्ता हितानामनुरूप आर्य शक्तिज्ञ आत्मेव हि सोनुकम्प्यः' ॥२॥ एतावन्मयं देयमिति स्वशक्तितुल्यं जानन् ।
वाक्यं तु येनादियते विशिष्टं प्रत्याहतश्चापि नियुज्यमानः । प्रज्ञाभिमानी प्रतिकूलवादी त्याज्यः स तादृक् त्वरयैव भृत्यः ॥३॥ अपेक्षाराजचरितं सर्वेऽपि मृतका स्मृताः । तन्निन्नयोगक्षेमत्वादिति सामुद्रिकं वदे ॥ ४ ॥ यथा तदनुसारेण मन्त्र्यादिभृतकान्तकम् । शोधनायां सुजातायां राज्यस्थैर्य दृढं भवेत् ॥ ५॥ किं नामैतन्न विदितं यदनेन न जायते । यत्राकृत्यैव जन्तूनां सदसत्वं विभाव्यते ॥ ६ ॥ आहुश्चेयं कृता विद्या समुद्रेणेति तत्र च । विवदन्ते महात्मानो ये कर्मशरणा भुवि ॥ ७ ॥ सत्य विधातृविहिता रचने यं ततोऽधिकम् ।
प्रबलं कर्म विज्ञेयं न्याय्यं को विनिवारयेत् ॥ ८ ॥ अयमर्थः -
सत्यं प्रारब्धोपनतं फलमत्रोपभुज्यते ।
तत्तदनुसारेण जन्तूनां रेखाचिहादि भाव्यते । ॥९॥ परन्तु भगवदेकशरणानां न जातु दुष्कर्मफलोदयो भवेत् ।
अस्ति च कर्मानुसारि ग्रहदशादि दुष्टफले-तत्प्रसादकमन्त्राधुपासनेन दुष्टफलनिवृत्त्या सुफलोदयः । अस्ति च विज्ञानाग्निदग्धानां कर्मणां पुनरङ्कुरोद्भावना । देहपाताचदर्शनादस्ति प्रारब्धं बलवदिति । तत्रोन्मुक्तवेगाविद्ध. शरन्यायेनावतीर्णवर्णोद्धतनदीवाहन्यायेन वा तस्य प्रत्यावर्तयितुमशक्यत्वेऽपि तस्यातिबलवन्मुक्तशरेणोन्मार्गविक्षेपणादिना चोन्मुक्तशरवत् नदीवाहवच्च प्रत्यावर्तने लक्ष्यानुगमनं तत्तदनर्थविधानं च यथा दृष्टं तथा प्रारब्धमपि
For Private and Personal Use Only