________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतः।
शक्यत एव शिथिलयितुमित्यतिप्रबलप्रतियोगिकर्मणां परथा तु [८७ब]तदेवं सर्वथा भोग्यमिति । अथवा भाविकर्मणां पर...यकत्वेन' परिहारो विधेयः । तथा च दैवपौरुषानुयोगे परशुरामं प्रति पुष्करः । राम उवाच ।
'दैवं पुरुषकारं च किं ज्यायास्तद्वदस्व मे। .
अत्र मे संशयं देव छेत्तुमर्हस्यशेषतः ॥ १०॥ पुष्कर उवाच
स्वमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ ११ ॥ प्रतिकूलं तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशालिनाम् ॥ १२ ॥ येषां पूर्वकृतं कर्म सात्त्विकं मनुजोत्तम । पौरुषेण विना तेषां केषांचित् दृश्यते फलम् ॥ १३ ॥ कर्मणा प्राप्यते लोके राजसस्य तथा फलम् ।
पौरुषेणाप्यते लोके मार्गितव्यं नरैः फलम् ॥ १४ ॥ सात्त्विकं प्रारब्धं विनापि स्वयमेव फलतीति पौरुषापेक्षा नास्ति, राजस तु पौरुषेणैवोबुद्धं भवतीति ।
दैवमेव न जानाति नरः पौरुषवर्जितः । तस्मात्पौरुषयुक्तस्य दैवं तुं सफलं भवेत् ॥ १५ ॥ पौरुषं दैवसंपत्या काले फलति भार्गव । दैवं पुरुषकारश्च कालश्च मनुजोत्तम । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ १६ ॥ कृषिवृष्टिसमायोगा दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कदाचन ।। १७ ॥ तस्मात्सदैव कर्तव्यं सधर्म पौरुषं नृभिः । विपत्तावपि यस्येह परलोके ध्रुवं फलम् ॥ १८ ॥
1 Corrupt.
For Private and Personal Use Only