SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः। 'वडवोष्टकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् । झषपित्तमृगाश्ववस्तदुग्धैः करिहस्ताच्छिदये सतालगभैंः ' ॥ १९ ॥ तालगभ॑स्तालवृक्षनिर्यायैः । आर्क पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतः प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चाच्छितस्य न शिलासु . भवेद्विघातः ॥ २० । तैलं चात्र तिलस्यैव । क्षारे कदल्या मथितेन युक्ते दिनोषिते पायितमायसं तत् । सम्यक् शितं चाश्मनि नैति भङ्गं न चान्यलोहेष्वपि तस्य कौण्ठयम् ॥ कदली दग्धायसक्षारम् । तन्माथिते तत्सहिते । इति खड्गलक्षणं नाम कुसुमम् । . [११०] अथ सेनानीलक्षणम् । बृहत्तत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽपि वा ॥ १ ॥ कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः । अश्वशिक्षासुशिक्षश्च कुशलः श्लक्ष्णभाषिता ॥ २ ॥ निमित्ते शकुनज्ञाने वेत्ता वैद्यश्चिकित्सिते । पुरुषान्तरविज्ञाने षाड्गुण्ये च विनिश्चितः । . कृतज्ञः कर्मणां शूरस्तथा क्लेशसहोऽप्यूजः ॥ ३ ॥ इति सेनानीलक्षणाभिधं कुसुसम् । [१११] अथ भृतकलक्षणम् । सत्र मृतकेति भृतकाश्च मृतिकाश्चेत्येकशेषसमासेनोभयोरपि दासीदासयोरुद्देशोऽत्र ग्राह्यः । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy