SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। ___ यस्मिन् त्सरुप्रदेशे व्रणो भवेतद्वदेव खड्गस्य । वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥ ९ ॥ वर्षास्त्रीणां मुखे तिलकं दृष्ट्वा गुह्येऽप्यस्तीति वाच्यम् । तथाऽत्रापि मुष्टी अणं विलोक्य मध्येऽग्रे च व्रणो वाच्यः। अगुलानुसारेण वणफलमाह वराहः 'पुत्रमरणं धनाप्तिर्धनहानिः संपदोऽपि बन्धश्च । एकाद्यगुलसंस्थैर्बणैः फलं निर्दिशेत्क्रमशः ॥ १० ॥ सुतलामः कलहो हस्तिलब्धिपुत्रमरणधनलाभाः । क्रमशो विमाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥ ११ ॥ लन्धिनिर्वृद्धिः स्त्रीलब्धयो वधो मरणपरितोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥ १२ ॥ वित्ताप्तिरनिर्वाणं धनागमो मृत्युसंपदोऽस्वत्वम् । ऐश्वर्यमृत्युराज्यानि च क्रमास्त्रिंशदिति यावत् ॥ २३ ॥ परतो न विशेषफलं वृद्धिविषमसमस्थाश्च पापशुभफलदाः । कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽप्रमिति यावत् ' ॥ १४ ॥ . एतचेष्टितफलं स एवाह--- 'कणितं मरणायोक्तं पराजयाय प्रवर्तन कोशात् । स्वयमुदीर्णे युद्धं ज्वलिते विजयो भवति खड्ग' ॥१५॥ एतत्परिभाषां च स एवाह-- 'नाकारणं विवृणुयान विघट्टयेच्च पश्येन्न तत्र वदनं न वदेच्च मूल्यम् । देशं न चास्य कथयेन विमानयेच्च नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥१६॥ खड्ग प्रशस्तं मणिहेमचित्रं कोशे सदाचन्दनचूर्णयुक्ते । संस्थापये भूमिपतिः प्रयत्ना[८६ब]द्रक्षेत्तथैनं स्वशरीरवञ्च ॥१७॥ एतस्पानमपि स एवाह-- " इदमौशमसं च शस्त्रपानं रुधिरेण श्रियामिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥१८॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy