SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० नीतिकल्पतरु । आधूनं व्रणबहुलं स्वल्पगुणं प्राप्नुयाच द्विशतांशम् । इति पद्मरागम्ल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥ १३ ॥ इति पद्मरागाख्यशोणमणिलक्षणमूल्यकथनामिधं कुसुमम् । [१०९] अथोद्देशक्रम[८५ब]प्राप्तं खड्गलक्षणम् । तत्र गर्गोऽङ्गुलप्रमाणेनास्योत्तमादिलक्षणमाह । 'अङ्गुलानि च पश्चाशत्प्रधानः खड्ग उच्यते । तदर्धतो निकृष्टः स्यात्तन्मध्ये मध्यमः स्मृतः ॥१॥ अतोऽधिकं च हीनं च छिन्नवंशं तथैव च । न धारयेद्बुधः खड्गम् स विनाशाय केवलम् ' ॥२॥ तत्र वराहः - 'निष्पन्नो न च्छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः ।। मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने' ॥ ३ ॥ मार्कण्डेयः ' शीघ्रः सुमधुरो यस्य शब्दः खड्गस्य श्रूयते । किंकिणीसशस्तस्य धारणं श्रेष्ठमुच्यते ॥ ४ ॥ खड्गः पापलाशाम्रो मण्डलायश्च शस्यते । [८६अकरवीरपलाशाग्रसदृशश्चापि शस्यते ॥५॥ महीधृतसुगन्धश्च पद्मोत्पलसुगन्धभृत् । वर्णतश्चोत्पलाकारः सवर्णो गगनस्य च ।। ६॥ ससमाङ्गलाना शस्यन्ते व्रणास्वहेष्ववस्थिताः'। श्रीवृक्षपर्वताकार। वंशपत्रनिभाश्च ये ॥ ७ ॥ श्रीवृक्षो बिल्वः । काकोलूककबन्धाभा विषमाङ्गुलसंस्थिताः । वंशानुगाः प्रभूताश्च न शस्तास्ते कदाचन ॥ ८॥ Corrupt. ___ 1 For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy