________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०९
जडरङ्गा भवन्तीह कुरुविन्दभवाश्च ये। कषायरङ्गा निर्दिष्टा ये च सौगन्धिकोद्भवाः ।
स्वच्छाश्च रागवन्तश्च विज्ञेयाः स्फटिकोद्भवाः ॥ २॥ अत्र वराहाचार्यः । --
— सौगन्धिककुरुविन्दस्फाटिकेभ्यः पनरागसंभूतिः ।
सौगन्धिकजा भ्रमराजनाब्जजम्बूरसद्युतयः ॥ २॥ जम्बूरसद्युतयो लोहितवर्णाः ।
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः । स्फटिकभवा द्युतिमन्तो[८५नानावर्णा विशुद्धाश्च ॥ ४ ॥ स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः । अन्तःप्रभोऽतिरागो मणिरत्नगणाः समस्तानाम् ॥ ५॥ कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः । दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥ ६॥ भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजङ्गानाम् ।
भवति मणिः किल मूर्धनि योऽनर्धेयः स विज्ञेयः ॥ ७ ॥ यस्तं बिभर्ति मनुजाधिपतिर्न तस्य दोषा भवन्ति विषरोगकृताः कदाचित् । राष्ट्रे च नित्यमभिवर्षति तस्य देवः शत्रूश्च नाशयति तस्य मणेः प्रभावात् ॥८॥ अथात्रार्धकलना
षड्विंशतिः सहस्राण्येकमणेः स्यात्पलप्रमाणस्य । कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ॥९॥ अर्धपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि । यश्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥ १० ॥ माषकचतुष्टयं दशशतक्रयं द्वौ तु पश्चशतमूल्यौ। परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥ ११॥ वर्णन्यूनस्यार्ध तेजोहीनस्य मूल्यमष्टांशम् । अल्पगुणो बहुदोषो मूल्यात्प्राप्नोति विंशांशम् ॥ १२ ॥
For Private and Personal Use Only