________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०८
नीतिकल्पतरुः ।
शता मूल्यमिति एकैकस्य सपादरूपकं मूल्यम् । पञ्चपञ्चाशश्चेद्धरणमिति तदा चत्वारिंशन्मूल्यमित्येकैकस्य साधैकादशकलामूल्यम् । एवमग्रेऽपि कलामानं योज्यमिति ।
Acharya Shri Kailassagarsuri Gyanmandir
पिक्कापञ्चार्घार्घारकः सिक्थं त्रयोदशाद्यानाम् । संज्ञाः परतो निगराचूर्णाशीतिपूर्वाणाम् ॥ २६ ॥
त्रयोदशमौक्तिकानि धरणमिति त्रयोदशकमारभ्य पञ्चपञ्चाशदन्तं पिक्कादिनिगरान्तं क्रमेण मौक्तिकसंज्ञा । त्रयोदशमौक्तिकानां घरणमितत्वे [ ८४ ब] तन्मौक्तिकानामपि पिक्का संज्ञा । एवं षोडशानां धरणमितत्वे पिच्छसंज्ञा । इत्यादि पञ्चपञ्चाशतो धरणमितत्वे रवसंज्ञेत्यन्तम् । अशीतिमौक्तिकानि धरणामित्यारभ्य पञ्चशतीधरणामित्यन्तं चूर्णसंज्ञा मौक्तिकानामिति । इति मौक्तिकलक्षण शाखा ॥
1
[ १०७ ]
अथोद्देशक्रमप्राप्तं मरकतलक्षणम् । शुकपक्षनिभः स्निग्धः कान्तिमान् विमलस्तथा । स्ववर्णचूर्णसंकाशैः सूक्ष्मैर्बिन्दुभिरन्वितः ॥ २ ॥ शस्तो मरकतो ज्ञेयो गम्भीर श्वोन्नतस्तथा । धार्यश्व पृथिवीशानां सर्वोपद्रवनाशनः ॥ २ ॥ अत्र वराहाचार्य: । --
शुकवंशपत्रसदृशं शिरीषकुसुमोपमं गुणोपेतम् । सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥ ३ ॥ इति मरकतलक्षणाभिधानं कुसुमम् ।
[ १०८ ]
कुरुविन्दाद्भवेज्जन्म तथा सौगन्धिकादपि । स्फटिकात्पद्मरागाणां श्रेष्ठास्ते ह्युत्तरोत्तरम् ॥ १ ॥
For Private and Personal Use Only