________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०७
गुखापश्चकं माषः ।
माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च । ___ अष्टौ शतानि च शतत्रयं त्रिपञ्चाशतायुक्तम् ।। १९ ॥ इत्थं सार्धत्रिमाषस्य द्वाविंशच्छतानि त्रिमाषस्य विंशतिः साधं द्विमाषस्य [८३ ब]त्रयोदश । द्विमाषस्य अष्टौ । सार्धमाषस्य त्रिपञ्चाशधुतास्त्रिशतीति ।
पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः । सार्धास्तिस्रो गुनाः सप्ततिमूल्यावृतं रूपम् ॥ २०॥ गुखात्रयस्य मूल्यं पञ्चाशद्रूपिका गुणयुतस्य । रूपकपश्चत्रिंशत्त्रयस्य गुजार्धहीनस्य ॥ २१॥ पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदशसुरूपाः ।
त्रिशती सपश्चविंशा रूपकसङ्ख्याकृतं मूल्यम् ॥ २२ ॥ अयमर्थः।- द्वात्रिंशद्गुना धरणम् , एतन्मानेन यदि त्रयोदशमौक्तिकानि स्युस्तदा सपञ्चत्रिंशत्का त्रिशती मूल्यमित्येकैकस्येत्यर्थः ।
(८४अ) षोडशकस्य द्विशती: विंशतिरूपस्य सप्ततिः सशता
यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशतासहितम् ॥ २३ ॥ षोडशमौक्तिकानि चेद्धरणमिदं तदैकैकं द्विगुलामितमितमिति एकैकस्य सार्धद्वादशरूपका मूल्यं जायते । विंशतिमौक्तिकानि चेद्धरणमितत्येकैकं किंचिदधिकसा/गुजामितं तत्र प्रत्येकस्य सार्धा अष्टौ रूपका मूल्यम् । पञ्चविंशतिश्चेद्धरणमितं तदा किंचिद् मात्राधिकसपादगुञ्जामितं तज्जायते । तत्र प्रत्येकस्य सार्धपश्चरूपका मूल्यं जायते इति ।
त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं च। षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम् ॥ २४ ॥ मुक्ताशील्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना ।
द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम् ॥ २५ ॥ मौक्तिकत्रिंशच्चेद्धरणं किचिदधिकगुनामितमेकैकं तदा सप्ततिमूल्यमिति । एकैकस्य किंचिदूनसपादरूपकद्वयं जायते । मौक्तिकचत्वारिंशच्चेद्धरणं तदा
For Private and Personal Use Only