________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२०५
वायव्यं च यवोपममशोककुसुमोपमं समुद्दिष्टम् ।
स्रोतः खनिः प्रकीर्णकमित्याकरसंभवस्त्रिविधः ॥ २२ ॥ यवोपमं मध्यस्थूलम् । अशोककुसुमोपमं लोहितम् । स्रोतो जलप्रवाहः । खनिराकरः । प्रकीर्णकं यस्यां भूमौ मणयो जायन्ते यथा समुद्रे । इति वज्रस्त्रिविधः।
इति हरिमणिनिरूपणाख्यं कुसुमम् ।
[१०६] अथैतदधरवर्तिमुक्तालक्षणम् । अत्र वराह एतदुत्पत्तिस्थानानि वक्ति ।
द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि । मुक्ताफलानि तेषां बहुसाधु च शक्तिजं भवति ॥ १ ॥ सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः ।
कौबेर्यपाण्ड्यवाटकहैमक इत्याकरा अष्टौ ॥ २ ॥ हैमको हिमवान् । मार्कण्डेयः ।
मौक्तिकानां तु सर्वेषां वृत्तत्वं गुण उच्यते ।
स्वच्छता सुशुक्लत्वं महत्तं चापि कीर्तितम् ॥ ३ ॥ वराहाचार्यः।
ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु ।
ये चोत्तरायणभवा ग्रहणेऽन्दोश्च भद्रेभाः ॥ ४ ॥ ऐरावतकुलजातानामेतादशयोगजातानां भद्राख्यजातानां च कुम्भकुहरेषु मुक्ता जायन्ते । तथा च
तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु। बहवो बृहप्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥ ५॥ नैषामर्धः कार्यों न च वेधोऽतीव ते प्रभायुक्ताः। मुतविजयारोग्यकरा महापवित्रा धृता रानाम् ॥ ६॥
For Private and Personal Use Only