SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०४ नीतिकल्पतरुः | सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या | तुलितस्य द्वे लक्षे मूल्यं द्विद्वयूनिते चैतत् ॥ १६ ॥ पादत्र्यंशार्धेनं त्रिभागपश्चांशषोडशांशाश्च । भागश्च पञ्चविशः शतिकः साहस्रिकश्चैवम् ॥ १७ ॥ अत्रार्थः । विंशतितण्डुलप्रमितस्य हीरस्य कार्षापणानां द्वे लक्षे मूल्यम् । द्विद्वनितस्यास्य द्वाभ्यां द्वाभ्यां तण्डुलाभ्यामू नितस्य पादेत्यादिमूल्यम् । तथा च - अष्टादश तण्डुलमितस्य पादेत्यादिमूल्यम् । तथा च अष्टादशतण्डुलमितस्य पादोनं लक्षद्वयम् । षोडशमितस्य त्रिभागहीनम् । चतुर्दशमितस्यार्धमेकलक्ष. मितियावत् । द्वादशमितस्य लक्षतृतीयांशो मूल्यम् षष्ट्यधिक सषट्ातषट्षष्टिसहस्राणि । दशमितस्य पश्चांशः चत्वारिंशत्सहस्राणि । अष्टमितस्य षोडशांशाः सार्धद्वादशसहस्राणि । षण्मितस्य पञ्चविंशो भागः अष्टसहस्राणि । चतुर्मितस्य शतांशः सहस्रद्वयम् । द्विमितस्य सहस्रांशः शतद्वयम् । अन्तरे स्वधियोह्यम् | अथैतद्भेदनिरूपणम् । Acharya Shri Kailassagarsuri Gyanmandir वेण्णा विशुद्धं शिरीषकुसुमप्रभं कौसलकम् । सौराष्ट्रिकमाताम्रं वज्रं कृष्णं तु शूर्परके ॥ १८ ॥ शिरीषकुसुमप्रभं श्वेतपीतप्रभम् । आताम्रमीषद्रक्तम् । ईषता हिमवति मतङ्गजं वपुष्पसंकाशम् | आपीतं च कलिङ्गे श्यामं पौण्डेषु संजातम् ॥ १९॥ ईषत्ताम्रमत्राताम्रवर्णम् । वपुष्पसंकाशं मनाक् पाण्डुरम् । अथैषां देवताकथनम् ऐद्रं षडश्रि शुक्कं याम्यं सर्पास्यरूपमसितं च | कदलीकाण्ड निकाशं वैष्णवमिति [ ८२ ब] सर्वसंस्थानम् ॥ २० ॥ ऐन्द्रमिन्द्रदैवतम् । सर्पास्यरूपं सर्पमुखरूपम् । कदलीकाण्डनिकाशं पीतनीलम् । वारुणमबलागुह्योपमं भवेत्कर्णिकारपुष्पनिभम् । शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥ २१॥ अबलागुह्योपमं शृङ्गाटकसंस्थानं त्रिकोणम् । व्याघ्राक्षिनिभं नीललोहितम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy