________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
तेषां गुरुत्वं रागश्च स्वच्छत्वं रश्मिशालिता । अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च ॥ ७ ॥ गुणवन्तो विनिर्दिष्टा धार्यास्ते गुणसंयुताः । खण्डाः सशर्करा ये च निष्प्रभा मलिनास्तथा । न ते धार्या नरेन्द्राणां जयश्रीजीवितैषिणाम् ॥ ८ ॥
इति सामान्यलक्षणम् । अथ विशेषलक्षणे सर्वरत्नमूर्धन्यवज्रलक्षणम् । अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् । षट्कोणं लघु शुद्धं तद्धार्थ वज्रं महीक्षिता ॥ ९ ॥ प्रभा च शक्रचापाभा यस्यार्काभिमुखी भवेत् । तं वज्रं धारयन्न्राजा सर्वाञ्जयति शास्त्रवान् ॥ १० ॥ अत्र वराहाचार्यः । —
रक्तं पीतं च शुशुभं राजन्यानां सितं तु विप्राणाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम् ॥ ११ ॥ शैरीषं शुक्लपीतम् । अशुभवज्रलक्षणानि स एवाह । काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्विद्धम् । द्विगुणा दग्धकलुषत्रस्तविशीर्णानि न शुभानि ॥ १२ ॥ द्विगुणाश्रिद्विगुणाभी रश्मिभिर्युतम् ।
यानि च बुद्बुददलिताप्रचिपिटवासीफलप्रदीर्घाणि । सर्वेषां चैतेषां मूल्याद्भागोऽष्टमो हानिः ॥ १३ ॥ वज्रं न किश्चिदपि धारयितव्यमेके पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः । शृङ्गाटकत्रिपुटधान्यकसंस्थितं य
च्छ्रोणीनिभं च [ ८२अ] शुभदं तनयार्थिनीनाम् ॥ १४ ॥ स्वजनविभवजीक्तिक्षयं जनयति वज्रमनिष्टलक्षणम् ।
२०३
For Private and Personal Use Only
अशनि भय विषादिनाशनं शुभमुपभोगकरं च भूभुजाम् ॥१५॥ अथैतदन्मूल्यकथनम् । तत्रादौ तदुपयोगिमानकथनम् ।