________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः
माहिषं शारभं चैव रौहितं वृक्षजेषु च । अष्टस्वप्यधिकमुक्तं चान्दनं वैतसं तथा ॥ ७ ॥ सालशाल्मलिशालानां ककुभस्यार्जुनस्य च । वंशस्य च तदुत्पन्नं काष्ठं तत्र शुभं विदुः ॥ ८ ॥ वंशो गङ्गातटाजातो गोमत्याः साल एव च । वेतसश्च वितस्ताया धनुष्कर्मणि शस्यते ॥९॥ राज्ञा चापस्य कर्तव्या पूजा शरवरस्य च । खण्डस्य च विशेषेण स्थितिश्चैषा सुरालये ॥ १९॥
इति धनुर्लक्षणकुसुमम् ॥
[१०५] अथ रत्नलक्षणम् । तत्र पराशरस्तदुत्पत्तिप्रकारमाह ।
भुवः प्रभावाज्जातानि रत्नानि विविधानि च । शिलाश्च रत्नरूपत्वं कालाद्गच्छन्ति च स्वयम् ॥१॥ वजेन्द्रनीलमरकतर्केकतरपद्मरागरुधिराख्याः । वैडूर्यपुलकविमलकराजमणिस्फटिकशशिकान्ताः ॥२॥ [८१ब] सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः । ब्रह्ममणि ज्योतीरससस्यकमुक्ताप्रवालानि ॥ ३ ॥ सर्वाण्येतानि शस्तानि धार्याण्येव महीभुना।
सुवर्णप्रतिबद्धानि जयारोग्यसमृद्धये ॥ ४ ॥ अत्र वराहमिहिरः।
रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन । यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्झैः ॥ ५ ॥ रत्नजातिषु सर्वासु चत्वार्यत्कृष्टतापदम् । वज्रं मौक्तिकशोणे च नीलं तल्लक्षणं ब्रुवे ॥६॥
For Private and Personal Use Only