________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[९९] - अथोदिष्टक्रमानुसारेणावसरप्राप्तं रथलक्षणं यवप्यस्ति तथापि तस्य निर्मेयत्वान्निर्माणस्य च स्वेच्छाधीनत्त्वादिभादिवद्धयोपादेयतायोगाभावाल्लक्षणं विस्त. रभयान्न वितन्यते । तथापि संक्षेपेण तत्स्वरूपम् । यथा
'लोहसारमयश्चक्रसुगमो मञ्चकासनः । स्वान्दोलाचित्तरूढस्तु' मध्यमासनसारथिः ॥१॥ शस्त्रास्त्रसन्धार्युदर इष्टच्छायो मनोरमः।
एवंविधो रथो राज्ञा रक्ष्यो नित्यं सदश्वकः' ॥२॥ अथ छत्रलक्षणम्
'मयूरहसपुच्छस्रशुकसारसपक्षजम् । बलाकापत्र वापि छत्रं धार्य तथैकजम् ॥ ३॥ मिश्रपक्षं न कर्तव्यं दुकुलेन तदच्छादयेत् । वृत्तं चित्रपताकाभिर्भरितं मौक्तिकोम्भितम् ॥ ४॥ दण्डोऽस्य कार्यः सौवर्णो नवसप्ताष्टपर्ववान् । षड्हस्तो नृपते राज्ञी-कुमारा विप्रमन्त्रिणाम् ॥५॥ सार्धपञ्चकहस्तोऽन्याधिकृतां पञ्चहस्तकः । चतुर्हस्तो परेषां च विप्राणां चतुरश्रकम् ॥ ६ ॥ वृत्तमेव तथान्येषां व्यासाबण्डार्धमेव च। [७९ब]स्वर्णरौप्यप्रवालानां ताम्रवैडूर्ययोरपि ।। ७ ।। चन्दनक्षीरिवृक्षस्य स्वर्णरुक्मोम्भितोमनः । स्वर्णरौप्यमयश्चापि चित्ररत्नविभूषितः ।
दण्डः कार्यश्च रक्षेषा भूभुजां भूमिरक्षिणाम् ॥ ८॥ घराहस्तु पर्वफलमाहः'मातृ २ भू ४ धन ६ कुलक्षयावहा १० रोग मृत्युजननाश्च पर्वभिः ।
द्वयादिभिर्दिकविवर्षितैः क्रमात् द्वादशान्तविरतैः समैः फलम् ' ॥९॥
समैः समसङ्ख्याकैः, तस्माद्वादशान्तं समपर्वकलनायां चतुःषट्दशाष्टद्वाश. सङ्ख्यायां विकल्पः । विषमपूर्वफलं च स एवाह ।
1 Corrupt.
For Private and Personal Use Only