SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ नीतिकल्पतरु : । आदिना पुरुषयुतस्यान्यवाजिनामुपर्यारोहणं नेष्टम् । उपवाह्येति यस्मि - न्प्रत्यहमारुह्यते तस्याकस्मान्मरणं नेष्टमिति । ' क्रौञ्चवद्विपुवधाय द्वेषितं ग्रीवया त्वचलया च सोन्मुखम् । स्निग्धमुच्च मनुनादि हृष्टवद्यासरुद्धवदनैश्च वाजिभिः ॥ ६९ ॥ पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि वा । द्रव्यमिष्टमथवा परं भवेद्वेषतां यदि समीपतो जयः ॥ ७० ॥ भक्ष्यपानखलिनाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा । सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः ' ॥ ७१ ॥ सव्यपार्श्वमात्मीयदक्षिणपार्श्वम् । ' वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः । सन्ध्यासु दीप्तामवलोकयन्तो द्वेषन्ति चेद्बन्धपराजयाय ' ॥७२॥ सन्ध्यास्विती सूर्योदयमध्याह्रसायमर्धरात्रेषु दीप्तां दिशमवलोकयन्तो हेषन्ति । ' अतीव षन्ति किरन्ति बालान्निद्वारताश्च प्रवदन्ति यात्राम् । रोमत्यजो दीनखरस्वनाश्च पांसून्प्रसन्तश्च भयाय दृष्टाः ॥७३॥ बालाः पुच्छस्थाः । " • समुद्गवद्दक्षिण [ ७९ अ ] पार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः । जयाय शेषेष्वपि वाहनेष्विदं फलं यथासंभवमादिशेद्बुधः ' ॥ ७४ ॥ समुद्रवत् जानुमी योजयित्वा शेषेषु गजकरभादिषु यथा संभवमिति तेषां धूमाद्मिकणाभावात् । Acharya Shri Kailassagarsuri Gyanmandir • आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रतिषते च । वस्त्रेण वा स्पृशति दक्षिणमात्मपार्श्व योऽश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम् ॥ ७५ ॥ मुहुर्मुहुर्मुशकृत्करोति न ताडधमानोप्यनुलोमयायी । .अकार्य भीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते ' ॥७६॥ अकार्यभीतो मशक सूकरादिर्विना । इति राजोपकरणप्रकाण्डे वाजिलक्षणशाखा समाप्ता । कुसुमं चाष्टानवतितम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy