SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ मीतिकल्पतरुः। कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा'।. अथ भार्गवः।-- हेषिते कक्ष्ययोहन्यात्स्खलिते पक्षयोस्तथा ॥ ५८ ॥ भीतौ कलौत्तरे चैव ग्रीवासून्मार्गगामिनि । कुपिते बाहुमध्ये च भ्रान्तचित्ते तथोदरे ॥ ५९॥ अश्वं संताडयत्प्राज्ञो नान्यस्थानेषु कर्हिचित् । सर्वथा प्राप्तदण्डस्य दण्डमकं निपातयेत् ॥ ६० ॥ अस्थाने ताडितो वाजी बहुदोषं प्रकुप्यति । तावद्भवन्ति ते दोषा यावद्वाजी स जीवति' ।। ६१ ॥ अथैषां वयोमानलक्षणम् । 'षड्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्दिवर्षः सन्दंश्यैर्मध्यमान्त्यैः पतितसमुदितैस्याब्धिपश्चाब्दिकाश्वः । सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिकाः पीतशुक्लाः काचा मक्षीकशङ्खावटचलनमतो दन्तपातं च विद्धि' ॥६२ ॥ अत्रार्थः । अश्वानामधोदन्तपाल्यां दंष्ट्रोभयमध्ये षट् दन्ताः । तैः षड्भिर्दन्तरग्रवर्तिभिर्द्वयोरपि पाल्योः सिताभैः शिशुरेकवर्षारोह्यश्वो ज्ञेय इति । तैरिति । तैः षड्भिर्दन्तैः कषायैः कृष्णलोहितवर्णैः द्विवर्षः । संदंशेति दन्तपाल्यः सममध्यवर्तिनौ द्वौ द्वौ दन्तौ संदंशावुच्यते । तत्पार्श्ववढंकको मध्यमः । तयोरपि पार्श्ववत्यैकैकोऽन्त्यसंज्ञः । ततश्च संदंशैः पतितसमुदितैत्रिवर्षः । मध्यमैः पतितसमुदितैश्चतुरब्दः । अन्त्यैः पतितसमुदितैः पश्चाब्द इति संदंशानुक्रमेणेति । अयमर्थः । संदंशदन्तेषु चोत्कालिका कृष्णबिन्दुस्तदा षड्वर्षः । मध्यमेषु चेत्सप्ताब्दः । अन्त्येषु चेदष्टान्दः । एवं संदंशानुक्रमेण पीतबिम्बावेका. दशाब्दः । तत्राप्ययं क्रमः। संदंशेषु न[७८]वमाब्दः । मध्यमेषुः दशाब्दः । अन्त्येष्वेकादशाब्दः । इति । एवमप्रेऽपि । संदंशमध्यमान्स्यक्रमेण क्रमो ज्ञेयः । अतश्च शुक्कबिन्दौ चतुर्दशाब्दः । काचवल्लौ सप्तदशाब्दः । मक्षिकाकृती विंशत्यब्दः । शङ्खाकृतौ त्रयो विंशत्यब्दः । अवटे च्छिद्रबिन्दौ षड्विंशाब्दः । चलने कम्पने एकत्रिंशदब्दः । पतने द्वात्रिंशदब्दः। एकमन्तरे मध्यमान्तक्रमेण For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy