SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतः। १९३ अथ महिषवराहश्चोष्ट्रमार्जारगामी कपिकरटशृगालैस्तुल्यगामी च योऽश्वः । स दिशति धननाशं शत्रुनाशं च कुर्यात् भवति न च सुखाय स्वामिनः शोकदाता' ॥ ५० ॥ शत्रुभ्यो नाशः शत्रुनाश इति पञ्चमीति योगविभागात्पञ्चमीसमासः । अथ स्वरलक्षणम् । ' भेरीशङ्खनृसिंहद्विपपवनवृषस्निग्धगम्भीरनादाः वीणा-पुंस्कोकिलानां मधुरपटुरवा वाजिनो राजवाहाः । काकोलूकोष्ट्रभासश्च खरवृकरवा रूक्षविच्छिन्नघोषा अन्ये चेत्थं प्रकारास्त्वशुभफलकरा हानिशोकप्रदाश्च ॥५१॥ सायं ग्रीष्मे तु शरदि प्राताश्वं च वत्सदा। वर्षासु न वहेदीषत्तथा विषमभूमिषु ॥ ५२ ।। अनोशनाः। --- 'सायं प्रातश्च हेमन्ते शिशिरे कुसुमागमे । सुगत्याग्निर्बलं दायमारोग्यं वर्धते हरेः । भारमार्गपरिश्रान्तं शनैश्चंक्रमयेद्धयम् ॥ ५३ ।। गच्छेत्षोडशमात्राभिरुत्तमाश्वो धनुःशतम् । यथा यथा न्यूनगतिरश्वो हीनस्तथा तथा ॥ ५४ ।। अथ गतिशिक्षानिरूपणम् । 'सहस्त्रचापप्रमितं मण्डलं गतिशिक्षणे । उत्तमं वाजिनो मध्यं तदधं च तदर्धकम् ।। अल्पं शतधनुः प्रोक्तमल्पं च तदर्धकम् ॥ ५५ ॥ शतयोजनगन्ता स्यादिनैकेन यथा हयः । गतिं संवर्धयेन्नित्यं तथा मण्डलविक्रमैः ॥ ५६ ॥ अथ कषाताडनवेला स्था[७७ब]नकथनम् । 'हेषायां स्कन्ध उद्दिष्टः स्खलिते जघनान्तरम् । भीतौ वक्षःस्थलं हन्याद्वक्त्रं चोन्मार्गगामिनि ।। ५७ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy