________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
नीसिकल्पतरुः । जानुदेशे यदावर्तो भवेद्यस्य च वाजिनः । प्रवासं सततं ब्रूते स भर्तुः क्लेशसंयुतम् ॥ ४१ ॥ वाजी मेढ़तलाव” वर्जनीयो महीभुजा । स करोति परं नाशं परस्परसमुद्भवम् ॥ ४२ ॥ पृष्ठवंशे यदावर्तो यस्यैकः संप्रजायते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतः बुधैः ॥ ४३ ॥ गुह्ये पुच्छे गले यस्य भवन्त्यावर्तकास्त्रयः । स कृतान्तसुरूपेण वर्जनीयस्तुरङ्गमः ॥ ४४ ॥ षट्पदाभो भवेद्यस्य कृष्णतालुन दुष्यति ।
शुक्लपादमुखो वाथ आवतैः कुत्सितैः परैः । ॥ ४५ ॥ अन्न वराहाचार्यः।
'चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः ।
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णेन महानुभावाः ' ॥४६॥ कान्तिलक्षणमाह वररुचिः।
'बालाग्निप्रवालद्रुतकनकनिभा वहिजैश्वर्यवृद्धयै नीलाम्भोजाभ्रवर्णा भवति सलिलजा सर्वदुःखापही । गम्भीरा नीलवर्णा दिशति च तुरगे पार्थिवी सर्वकामा
वायव्यारूक्षवर्णा त्वशुभफलकरी निन्दिता व्योमजा च' ॥४७॥ गतिलक्षणं चाह वराहाचार्यः।'त्वरित[७७]गतिविलासैविक्षिपन्पादमुच्चै
व्रजति नकुलगामी कम्पयन्स्वं शिखाग्रम् । अथ विकटखुरागर्दह्यमानो यथोम्ि
स्पृशति चरणपातैस्तैत्तिरं चैव यातम् ॥ ४८ ॥ स्थिरपदनिहतांसो दूरमुन्नम्य वक्त्रम्
व्रजति च सुविलासं बर्हिवर्हिगामी । सुगतमथ तुरङ्गं योऽधिरुह्याभिगच्छेत्
स भवति सुखगामी शत्रुनाशं च कुर्याद् ' ॥ ४९ ॥
For Private and Personal Use Only