________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
• यस्य वर्णविभेदेन जायते रोमसंचयः । पुष्पाक्षः स परित्याज्यः सर्ववाजिभयावहः ॥ २७ यस्य पादाः सिताः सर्वे तथा वक्त्रं च मध्यतः । पञ्चकल्याणकः प्रोक्तः शतकल्याणकृद्धयः ॥ २८ ॥ विमिश्रवर्णकाः सर्वे प्रशस्ता वाजिनः स्मृताः । कृष्णनीलस्य मिश्रत्वमेवमुक्त्वा सुदूरतः ॥ २९ ॥ यस्य कृष्णेतरा वर्णा वृद्धिं यान्ति शनैः शनैः । नाशयन्ति तथा नीचान्स करोति जयं मुदुः ॥ ३० ॥ यस्याधमेन वर्णेन च्छाद्यन्ते हि प्रधानकाः ।
वृद्धिं गच्छन्ति ते सोऽपि करोति हयसंक्षयम् ॥ ३१ ॥ यो यस्य ललाटेस्युरावर्ताश्चोत्तरोत्तराः ।
•
त्रिकूटः स परिज्ञेयो वाजिव्याधिकरः परम् ॥ ३२ ॥ एवमेव प्रकारेण त्रयो ग्रीवासमाश्रयाः । बदावर्ता: सवाजीशो जायते भूपमन्दिरे ॥ ३३ ॥ लट |[ ७६ ] युगलावर्तश्चन्द्रकोशः प्रकीर्तितः । वाजिनो यदि तौ स्यातां वाजिवृद्धिकरौ मतौ ॥ ३४ ॥ रोमावर्ती भवेद्यस्य वाजिनो दक्षिणाश्रयः । स करोति महत्सौख्यं स्वामिनः शिवसंज्ञितः ॥ ३५ ॥ तद्वामाश्रयः क्रूरः स करोति धनक्षयम् । इन्द्राख्यावुभौ शस्तौ नृपराज्यविवृद्धिदौ ।। ३६॥ कर्णमूले यदावर्तस्तन्मध्ये च तथा परः । विजयाख्यावुभौ शस्तौ युद्धकाले जयप्रदौ ॥ ३७ ॥ स्कन्धपार्श्वे यदावर्तएको वा यदि वा त्रयः । चक्रवतीं स विज्ञेयो वाजी भूपालवृद्धिदः || ३८ ॥ स्कन्धे यस्य महावर्त को वाष्टौ भवन्ति च । चिन्तामणिः स विज्ञेयो वित्तवृद्धिकरो हि सः ॥ ३९ ॥ शुक्लाक्षौ तालुकेशस्थौ चावत कीर्तिवृद्धिदौ । यो हयः स्वामिभक्तोऽसौ सदैव च सुखावहः ॥ ४० ॥
For Private and Personal Use Only
१९१