SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। अथावर्तलक्षणम् ' रन्ध्रोपरन्ध्रयोौंद्वौद्वौद्वौ सप्तकवक्षसोः । प्रमाणे च ललाटे च ध्रुवावर्ता दशस्मृताः ॥ ६ ॥ एकोऽपि न भवेद्यस्य ध्रुवावर्तस्तु वाजिनः । नासौ प्रशस्तो गदितः तस्मात्तं परिवर्जयेत् ॥ ७ ॥ रोमवर्तो ध्रुवावर्तः प्रमाणमुत्तरौष्ठाधो भागः । तत्र कुक्षिमाभिमध्यभागे रन्ध्रस्थानम् । तदुपर्युपरन्ध्रम् । तथा च पराशरः - 'कुक्षिनाभ्यन्तरे रन्ध्रमुपरन्धं तथोपरि ' । इति एवं एको [७५ब] रन्ध्र एकोऽप्युपरन्ध्रे द्वयोः पार्श्वयोश्चत्वार इति । 'ये प्रमाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्तिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः' ॥८॥ प्रमाणमुक्तलक्षणम् । गलो निगालाक्षः, पृष्ठं पर्याणस्थानम् , नयनोपरि भ्रूसमीपे, भुजौ प्राग्भागे, जानूपरि कुक्षिरत्र यामभागे, ललाटं भ्रूमध्यम् । अनुपातश्चक्षुर| भागः, गलं हृत्कण्ठसन्धिः, कर्णनिकटभागः शङ्खकः, जानुनी जक्कासन्धी, ककुत् बाहुपृष्टभागः, चरणाः सर्वे पादाः । ' कृष्णतार्द्विदन्तश्च यमजः कृष्णजिह्वकः। . हीनदन्तो द्विदन्तश्च द्विशफः श्वित्रवांस्तथा ॥९॥ ककुदि कृष्णपुच्छश्च मूकस्तितिरिसन्निभः । विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः । अशुमावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः ॥ १० ॥ आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः । कण्ठतो रोदमानश्च ज्ञेयावेतौ शुभाशुभौ ॥११॥ शुकेन्द्रगोपसंकाशा ये च वायससनिमाः । ... सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ' ॥ १२ ॥ अत्र शालिहोत्रः। ' यः सन्नद्धो हयो रावमूर्ध्ववक्त्रं करोति हि । खुराग्रेण स्पृशन्भूमिं स शंसति रणे जयम् ॥ १३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy