SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૮ www.kobatirth.org वेष्टयन्करेणालंम्बयन् । नीतिकल्पतरु: वल्मीक स्थाणुगुल्मक्षुपतरुमथन स्वेछयादृष्टदृष्टियात्रानुलोमं त्वरितपदगतिर्वक्त्रमुन्नाम्यचोच्चैः कक्ष्यासन्नाहकाले जनयति मुहुः शीकरं बृंहितं वा तत्काले वा मदातिर्जयकृदथ रदं वेष्टयन्दक्षिणं च ॥ ३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir " ' प्रवेश [ ७५ ] नं वारिणि वारणस्य प्राहेण नाशाय भवेन्नृपस्य । ग्राहं गृहीत्वोत्तरणं गजस्य तोयात्स्थलं वृद्धिकरं नृभर्तुः ' ॥ ३८ ॥ इति राजोपकरणवर्णनाख्ये तृतीयप्रकाण्डे गजलक्षणाभिधाना शाखा । [ ९ ] ' सन्त्येव यानानि महीपतीनां महार्घलभ्यानि परंतु वाजी । अनर्ध्य इत्येष महामणीनां मूर्धेति तल्लक्षणमुच्यतेऽद्धा ' ॥ १ ॥ अद्धा तत्वतः । ' दीर्घग्रीवाक्षिकूटास्त्र कहृदयपृथुस्ताम्रतात्वोष्ठजिह्वः सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः । जंघाजानूरुवृत्तः समसितदशन श्चारुसंस्थान रूपो वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नूनम् ' ॥ २ ॥ केशा मूर्धजा, बालाः पुच्छ जात्वौष्ठः उत्तरोष्ठः, पुच्छः पुच्छस्थलम् यत्रा - स्थिलग्ना बाला जायन्ते, सुप्रमाणेन सुलक्षणेन शफगतिमुखानि यस्य । अथ मानादिवर्णनम् । ARE AN INTERNET ' जघन्यमध्यज्येष्टानामश्वानामायतिर्भवेत् । अगुलानां शतं हीनं विंशत्यादशभिस्त्रिभिः ॥ ३ ॥ परिणाहाङ्गुलानि स्युः सप्ततिः पञ्चसप्ततिः । एकाशीति समानेन त्रिविधः स्याद्यथाक्रमम् ॥ ४॥ तथा षष्टिश्वतुषष्टिरष्टाषष्ठः समुच्छ्रयः । द्विपञ्चसप्तकयुता विंशतिः स्यान्मुखायतिः । श्मश्रुहीनं मुखं कान्तं प्रलम्बं तुङ्गनासिकम् ' ॥ ५ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy