SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १८७ मृत्युर्जन ..., रूक्षे दुर्गधे चाशुभं भवति । पाशः सर्पाकारः । 'शुक्लः समः सुगन्धिः स्निग्धोऽपि शुभावहो च्छेदः । गलनम्लानिफलानि च दन्तस्य समानि भनेन ' ॥ ३१ ॥ गलनं भाण्डस्येव विदलनं । स्रावश्च म्लानं वैवयं समानि फलेन, भङ्गो वक्ष्यमाणः। 'मूलमध्यदशनामसंस्थिता देवदैत्यमनुजाः क्रमात्ततः । स्फीतमध्यपरि[७४ब]पेलवं फलं शीघ्रमध्यचिरकालसंभवम् ' ॥३२॥ फलं शुभमशुभं वा। दन्तभङ्गफलमत्र दक्षिणे भूपदेशबलविद्रवप्रदम् । वामतः सुतपुरोहिते भयान् हन्ति साटविकदारनायकान्' ॥३३॥ अत्रापि मूलमध्यप्रान्तकल्पना क्रमेणोह्या । साटविकेत्याद्यापि वामत एव । एवमेव प्रागतिदिष्टगलनम्लानफलमपि वाच्यम् । ' आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम् । सौम्यलमतिथिभादिभिः शुभं वर्धते शुभमतोऽन्यथा वदेत् ' ॥३४॥ उभयभङ्गदर्शनादिति-उभयोर्दन्तयोः स्फोटदर्शनात् । शुभमिति शुभचिह्न वर्धते, उत्पनं वृद्धिं याति । पापलग्नादिभिरशुभं चिहं वृद्धिं याति अन्योन्यताया याप्यमिति भावः। .. ' क्षीरसृष्टफलपुष्पपादपेष्वापगातटविघट्टनेन वा । वाममध्यरदभङ्गखण्डनं शत्रुनाशकृदतोऽन्यथा परम्' ॥ ३५ ॥ वामदन्तस्य मध्ये स्फोटनमेतैर्यदि स्यात् । अन्यथेति दुष्टवृक्षैर्मूलाग्रयोस्तस्था दक्षिणदन्तमूलमध्यागेषु न शुभमिति । 'स्खलितगतिरकस्मादस्तकर्णोऽतिदीनः । श्वसिति मृदु सुदीर्धे न्यस्तहस्तः पृथिव्याम् । द्रुतमुकलितदृष्टिः स्वप्नशीलो विलोमो भयकृदहितभक्षी नैकशोऽसृक्शकृत्कृत् ' ।। ३६ ॥ 1 Corrupt, For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy