SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ नीतिकल्पतरुः। संक्षिप्तवक्षोजघनः पृष्ठमध्यसमुन्नतः । प्रमाणहीन उन्नाभिः स कुब्जो वारणाधमः ।। २४ ॥ उर्वोन्नताभ्यां सदन्तः कुदन्तो बाह्यसन्नतः । वामोन्नतरदो नागो वामकूटश्च कथ्यते ॥ २५ ॥ दन्तावनस्पृशौ यस्य सोऽस्रस्पृक् कथितो बुधैः । एकदन्तस्तथा नागः कूट इत्यभिधीयते ॥ २६ ॥ पादयोः सन्निकर्षः स्या[७४ अधस्य नागस्य गच्छतः । स शंठो ध्वनियुद्धे च लक्षणहर्न पूजितः ॥ २७ ॥ असत्यभ्याधिकं यस्य विस्तरेण स्तनान्तरम् । विकरः स विनिर्दिष्टो दुर्गतिर्निन्दितो गजः ॥ २८ ॥ अत्र वराहाचार्य: 'स्वल्पवक्त्ररुमहत्कुणशण्ठान् हस्तिनी च गजलक्षणयुक्ताम् । गर्भिणी च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते' ॥ २९ ॥ गजलक्षणयुक्ता स्थूलदन्ता समदा चेत्यर्थः । इत्यशुभगजलक्षणानि । अत्रैव महायतीनां महीपतीनां शुभाशुभज्ञानाय हस्तिचेष्टितं कथ्यते । तत्रादौ दन्तकल्पनम् । 'दन्तस्य मूलपरिधि द्विरायतं प्रौज्य कल्पयेच्छेषम् । अधिकमनूपचराणां न्यून गिरिचारिणां किश्चित् ॥ ३० ॥ परिधिमितं द्विगुणं कृत्वा तत्प्रमाणं त्यक्त्वा शेषं कल्पयेत् छिंद्यात् । अनूपचराणां जलचराणाम् । श्रीवत्सवर्धमानछत्रध्वजचामरानुरूपेषु च्छेदेषु दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि । प्रहरणसदृशेषु जयो । नन्द्यावर्ते प्रणष्ट. देशाप्तिः । लोष्टे लब्धपूर्वस्य देशस्य संप्राप्तिः भवति । लोष्टे मृतखण्डौ कृतौ स्त्रीरूपेषु विनाशो । भृङ्गारेऽभ्युत्थिते सुतोत्पत्तिः । कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन । स्त्रीरूपे योषिदाकृतौ। कृकलासकपिभुजङ्गेषु सुभिक्षव्याधयो रिपुवशित्वम्। गृध्रोलूकध्वाक्षश्येनाकारेषु जनमारकः 'पाशे बाधकबन्धे जन 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy