________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। विकटश्चेति विज्ञेया हानिदा हस्तिनी च या ।
हस्तिलक्षणसंयुक्ता[७३]गर्भिणी चात्र नो शुभा ' ॥ ४ ॥ अथैषां लक्षणानि ।
_ 'पञ्चोन्नतिः सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धावथ मन्दभद्रौ संकीर्णनागोऽनियतप्रमाणः ॥ ५ ॥ एकेति । एवं मन्दस्य षडुच्छायः । अष्टौ दैय नवपरिणाहः । भद्रस्य सप्तोच्छायः । नवदैर्ध्य दशपरिणाहः । तत्र च मानकलना यथा
'मुखादासेचकं दैर्ध्य पृश्निपार्बोदरान्तरम् ।
अनाह उच्छ्यः पादाद्विज्ञेयो यावदासनम् ॥ ६ ॥ इति ।। अनियतप्रमाण इति संमिश्रप्रमाणः । 'कृष्णो मदश्चाभिहितो मृगस्य मन्दस्य हारिद्रकसन्निकाशः। भद्रस्य वर्णो हरितो मदश्च संकीर्णनागस्य सदा विमिश्रः ' ॥ ७ ॥
एतन्मध्य एवैकः कश्चिदतिमदो गन्धगजः । तथा 'पुरीषगन्धमादाय यस्यारण्येऽपि हिंसकाः।
दूरादेव पलायन्ते व्याघ्राचा गांधिकस्त्वसौ ॥ ८ ॥ विस्तीर्णनाभिहनुकर्णललाटगुह्याः कूर्मोन्नतैबिनवविंशतिभिनखैश्च । रेखात्रयोपचितवृत्तकराः सुवाला धन्या भवन्ति मदपुष्करमारुताश्च ॥९॥
द्विनवाष्टादशर्मोनतैर्मध्योन्नतैः रेखात्रयं च दैर्येण स्थितमिति ध्येयम् । पाराशरः।
'विंशत्यष्टादशनखाः स्थिराः कर्मोन्नतान्तराः। गजानां पूजिताः पादा ये च स्युरकचाविलाः ॥ १० ॥ दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादब्रूहिणः ।
बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः' ॥ ११ ॥ पुष्करं करान्तः, अङ्गुलिः करान्तगता मांसपीशी । मार्कण्डेयः।
कर्णौ च विपुलौ येषां सूक्ष्मबिंदूचितत्वचौ । ते प्रशस्ता महानागा तथा सप्तसु सुम्थिताः ॥ १२ ॥
For Private and Personal Use Only