________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
१८३
तत्र मानं तुला । मानमुन्मानमगुलमानम् ।
इति महाराजलक्षणाभिधं कुसुमम् ।
तथा
[९७] अत्रैव प्रसङ्गादाज्ञीलक्षणमपि मात्रया लिख्यते ।
'भृङ्गारासानवाजिकुंजररथश्रीवृक्षयूपेषुभिमाला कुण्डलचामरांकुशयवैः शैलैर्ध्वजैस्तोरणैः । मत्स्यस्वस्तिकवेदी काव्यजनकैः शंखातपत्राम्बुजैः पादे पाणितलेऽथवा युवतयो गच्छन्ति राज्ञीपदम् ॥ १ ॥ निगूढमणिबन्धनौ तरुणपद्मगर्भोपमौ करौ नृपतियोषितस्तनुविकृष्टपर्वाङ्गुली । न निम्नमतिनोन्नतं करतलं सुरेखान्वितं
करोल्यविधवां चिरं सुतमुखार्थसंभोगिनीम् ॥ २॥ मध्यागुलिं या मणिबन्धनोत्था रेखागता पाणितलेऽङ्गनायाः। ऊर्ध्वा स्थिता पाणितलेऽथवा या पुंसोऽथवा राज्यसुखाय सा स्यात् ॥३॥
इति राज्ञीलक्षणाभिधं कुसुमम् ।
[९७ अ] अथ हस्तिलक्षणम् ।
राज्यं हस्तिविराजितं व्रजति यत्कीति च सांग्रामिकीम् यात्रा तैः समये विराजतितरां तल्लक्षणं तब्रुवे । भद्रायैः शुभलक्षणैर्भवति तदृद्धं विहीनं तथा शण्ठायैरिति तत्परीक्षणमतो हर्षाय संख्यावताम् ॥ १ ॥ मृगो मन्दश्च भद्रश्च संकीर्तिश्च शुभां इमे । गन्धेभोऽभ्यर्चितास्तेषां राज्यश्रीकीर्तिवर्धनाः ।। २ ।। वामनो मत्कुणो मूढो पालकः कुल्बकस्तथा ।
सत्कुदन्तौ वामकुटोऽसस्पृक्कूटोऽथ शण्ठकः ॥ ३ ॥ 1 Corrupt.
For Private and Personal Use Only