________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[९६] अथ पुरुषलक्षणं संक्षेपेण तावत् । -
एकाढयो द्विसितश्च निम्नविपुलव्यापिप्रलम्ब्यानताभिज्ञस्त्रिष्वथ यश्चतुर्व विषमः कृष्णः सुगन्धस्तथा हस्वं पञ्चसु सौक्ष्म्यभागपि च तथा दीर्घस्तथा चोन्नतः षट्सु स्नेहयुतश्च सप्तसु तथा वंशोन्नतश्चाष्टसु ॥ १। शुद्धस्यान्नवके बृहच्च दशके पद्मप्रभश्चापि यः स्यादवापि समश्चतुर्दशमुखः स्यात्षोडशाक्षस्तथा तेनेयं जगती जिता विजयते भूमण्डलेऽसौ सदा
याप्यं व्यस्ततया फलं खलु समग्राढ्या जना दुर्लभाः ॥२॥ अत्रार्थः । एते गुणा महापुरुषाणां महाराज्ञा वा विधेयाः । परं ते तत्सामस्त्यं मनुष्याणां [ ७१ ब ] भुवि दुर्लभम् । देवतोपलक्षकत्वादमीषामिति । अन्तरे पुनरेतत्प्रचुरा महापुरुषा महाराजानो वा भवन्ति । अल्पतया चैतस्सत्वे मध्यममनुष्यत्वम् । असत्वे पुनरधमत्वमिति । तत्र सांसारिकाणां धर्मार्थकामसारत्वं नियतम् । तन्मध्ये धर्माध्यक्ष्यवानेकाढय इति । कनीनिके विना शुक्लनेत्रा शुक्लदशनश्च द्विसित इति ! त्रिण्विति निम्नादिषु संबध्यते । त्रिनिम्नः त्रिविपुलः त्रिव्यापी त्रिप्रलंबी श्यानतः व्यभिज्ञ इति । तत्र नाभीस्वरसत्त्वगभीरस्त्रिनिम्नः । तथाच वराहाचार्यः । 'नाभीस्वरः सत्वमिति प्रशस्तं गभीरमेतत्रितयं नराणाम्'। वक्लोरोललाटविस्तीर्णनिविपुलः । तथा च स एव घदतीति 'उरो ललाटं वदनं च पुंसां विस्तीर्णमेतस्त्रितयं प्रशस्त । तेजोयशःश्रीभिः सर्वव्यापकस्त्रिव्यापी। प्रलंबमानभुजवृषणकर्णस्त्रिप्रलंबी। देवद्विजगुरुप्रश्रयी आनतः । धर्मार्थकामसेवाकालवित् अभिज्ञ इति सिद्धम् । निम्नविपुलव्यापिप्रलंब्यानताभिज्ञास्त्रिष्विति । अयं यश्चतुर्यु अविषमः कृष्णः सुगन्धः हस्व इति । तत्रागुलिहृदयपृष्ठकटीष्वविषमश्चतुरविषमः । कनीनिकाभ्रूकेशश्मश्रूकृष्णश्चतुःकृष्णः । नासास्यस्वेदकक्ष्यासौगन्ध्यवांश्चतुर्गन्धः । लिङ्गग्रीवाजयोभयहस्वश्चतुर्हस्व इति । पञ्चसु सौक्ष्म्यभागपि तथा दीर्घ इति पश्चसूक्ष्मः पञ्चदीर्घश्चेति । अङ्गुलि-केश-नख-द्विज-त्वक्षु सूक्ष्मः पञ्चसूक्ष्मः । हनुनेत्रललाटनासास्तनांतरदीर्घः पंचदीर्घः । तथा च वराहाचार्यः
For Private and Personal Use Only