SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। प्रकृत्या कुटिला नार्यः प्रकृत्या सरला नराः । तस्मात्समागमं यायात्परीक्ष्य पुरुषः स्त्रियम् ॥ २ ॥ तथा च । ' शस्त्रेण वेणीविनिगहितेन विदूरथं स्वा महिषी जघान । विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥ ३ ॥ एवं विरक्ता जनयन्ति दोषान्प्राणच्छिदोऽन्यैरनुकीर्तितैः किम् । रक्ता विरक्ता पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात् ॥४॥ स्नेहं मनोभवकृतं कथयन्ति भावा नाभीभुजस्तनविभूषणदर्शनानि । वस्त्राभिसंयमनकेशविमोचनानि भ्रक्षेपकंपनकटाक्षनिरीक्षितानि॥५॥ उच्चैः ष्ठीवनमुत्कटप्रहसनं शय्यासनोत्सर्पणं गोत्रस्फोटनजृम्भणानि सुलभद्रव्याल्पसंप्रार्थना । बालालिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं हक्पाताश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥ ६॥ इमां च विद्यादनुरागचेष्टां प्रियाणि वक्ति स्वधनं ददाति । विलोक्य संहृष्यति वीतरोषा प्रमार्टि दोषान्गुणकीर्तनेन ॥ ७ ॥ तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् । स्तनौष्ठदानान्युपगृहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः ॥ ८ ॥ इति प्रेमचेष्टालक्षणम् । विरक्तचेष्टा भ्रकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च । असभ्रमो दुष्परितोषिता च तद्विष्टमैत्री परुषं च वाक्यम् ।। ९॥ स्पृष्टाथवालोक्य धुनोति गात्रं करोति गर्व न रुणद्धि यान्तम् । धुम्बाविरामे वदनं प्रमाटि पश्चात्समुत्तिष्ठति पूर्वसुप्ता ॥ १० ॥ भिक्षुणिका प्रव्रजिका दासी धात्री कुमारिका रजकी । मालाकारी दुष्टाङ्गाना सखी नापिती दूत्यः ॥ ११ ॥ कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन । ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्धयर्थम् ॥ १२॥ दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु न च क्षमा याः । यासामसृग्वासितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः ॥१३॥ इति नारािगविरागकथनं नाम कुसुमम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy