SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नौतिकल्पतरुः। १७९ म तत्र नागाः सुधृता न योधा राज्ञो न माता न पिता न बंधुः । यत्रास्य साध्ये भवतीह विद्वाम्सांवत्सरो धर्मविदप्रमत्तः ॥ ६ ॥ इति दैवज्ञलक्षणं नाम कुसुमम् । [९४] अथ राज्ञीलक्षणम् । विनीता गुरुभक्ता च ईक्रिोधविवर्जिता । राज्ञः प्रियहिते सक्ता सुवेशा वसुलक्षणा ॥१॥ भृतामृतकदानज्ञा मृत्यानामन्ववेक्षिणी । अमृतानां जनानां च व्यक्तिकर्मप्रवर्तिनी ॥२॥ रागद्वेषवियुक्ता च सपत्नीनां सदैव या। भोजनाशनपानेन सर्वासामन्ववेक्षिणी ॥ ३ ॥ सपस्निपुत्रेष्वपि या पुत्रवत्परिवर्तते। मन्त्रिसांवत्सराचार्यानन्यान्पूजयते सदा ॥ ४ ॥ ब्रह्मण्या च दयायुक्ता सर्वभूतानुकम्पिनी । कृताकृतज्ञा या राज्ञश्च विदिता मण्डलेष्वपि ॥ ५॥ । परराजकलत्रेषु प्रीयमाना मुदान्विता । दूतादिप्रेषणकरी राजद्वारेषु सर्वदा। तद्वारेण नरेन्द्राणां कार्यज्ञा च विशेषतः ॥ ६॥ इति राज्ञीलक्षणं नाम कुसुमम् । [९५] इत्थं लक्षितलक्षणयुताश्च नार्यों विकारिका दृष्टाः । दुर्लभतराश्च नृपरा'स्तस्माद्रक्षेत्समागमस्तासाम् ॥ १ ॥ i Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy