________________
Shri Mahavir Jain Aradhana Kendra
१७८
www.kobatirth.org
मीतिकल्पतरुः ।
एवं गुणो यस्य भवेच मन्त्री कार्ये च तस्याभिरतो विशेषात् । राज्यं स्थिरं स्याद्विपुला च लक्ष्मीर्यशश्च दीप्तं भुवनत्रयेऽपि ॥ १० ॥
इति तृतीयप्रकाण्डे राजसमृद्धिशाखायां मन्त्रिलक्षणं नाम कुसुमम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ ९२ ] कल्पज्ञो लक्षणोपेतोऽनुकूलश्चास्तिकस्तथा । दैवज्ञानुगतो यस्तु स पुरोहित इष्यते ।। १ ।। यश्चाभिमानी दीप्ताज्ञः प्रतिकूलोऽस्य स द्रुतम् । राज्ञा त्याज्यो भवेन्नूनं नात्र कार्या विचारणा ॥ २ ॥ नक्षत्रवैतानसंहितांगिरः-क्षान्तिकल्पभेदेन पंचकल्पास्तद्वेदी कल्पज्ञः । नित्यनैमित्तिकं काम्यं त्रिविधं विदधीत सः । दैवज्ञवचनात्कर्म यथा राज्यं स्थिरीभवेत् ॥ ३॥ इति पुरोहितलक्षणाभिधं कुसुमम् ।
अथ गणकलक्षणम् ।
[ ९३ ]
विमा चन्द्रं यथा रात्रिर्मुकुटं नायकं बिना । विना ज्योतिष्यकमेतद्राज्यं तद्वद्विनिर्दिशेत् ॥ १ ॥ सुलक्षणो विनीतश्व त्रिस्कंध ज्योतिषश्रमी । अदीनवादी धर्मज्ञो जितनिद्रो जितेन्द्रियः ॥ २ ॥ अव्यङ्गो नाधिकाङ्गश्च वेदवेदाङ्गपारगः । चतुषष्ट्यङ्गतत्वज्ञ ऊहापोहविचक्षणः ॥ ३ ॥ भूतभव्यभविष्यज्ञो गणितज्ञो विशेषतः । आस्तिकः श्रद्धधानश्च प्रतिभावानृतार्थवान् ॥ ४ ॥ दैवं पुरुषकारेण जेतुं यो वेत्ति तत्वतः । तमेव रक्षेद्राजा सदा देवार्चने [ ७० ब] रतम् ॥ ५ ॥
For Private and Personal Use Only