SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। १७५ राजा मन्त्रिपुरोधसौ च गणको राज्ञी गजाश्वौ रथः छत्रं चामरमासनं शरधनुरस्त्रानि खड्गास्तथा । सेनानी तकः सहायसुहृदोऽथो यामिको द्वाःस्थितो दूतः सन्धिकराश्वराश्च पुरपो नागाश्वपौ सारथिः ॥५। धर्मायव्ययदुर्गवस्वधिकृताः सूदाश्च पौरोगवोऽस्त्राचार्यः स्थपतिश्च लेखकसभास्ताराश्च वैद्योऽत्रपः । शुद्धांताधिकृताः प्रसादमृगयाविज्ञास्तथा येऽपरे संग्राह्या निपुणं सुधीभिरपि यै राज्यर्द्धिवृद्धिर्भवेत् ॥ ६ ॥ यैरमीभिः सल्लक्षणराजादिभिः राज्यवृद्धी राजभावकर्मलक्षणस्य राज्यस्य वृद्धिः सर्वोत्कर्षो भवेत् ते संग्राह्या इति संबन्धः । तत्र प्रकृतिकार्य राजसंग्रहः राजकार्यच सल्लक्षणप्रकृतिसंग्रहो विधेय इति[६९अ]विधिः । किलेत्यप्रतिपत्तौ । अत्रोभयस्मिन्न कस्यचिद्विमतिरिति । तत्र राज्ञः सल्लक्षणप्रकृतिसंग्रहः स्वाधीन एव मनाक् स्वविधेयविच्युतौ न तत्स्थाने परासंजनात् । प्रकृतीनां तु परम्परागते राज्ञि प्रकृतिच्युते (चालनार्थ) यद्यपि दिक्पालांशत्वादस्य न स्वातन्त्र्य स्वाधीनं, तथा सन्मार्गगामित्वमेवदिक्पालांशात्वे चाल्पत्वनियामकं परथा तु दिक्पालानामेव तत्र कुपितत्वाद्वेयते' प्रकृतिभिरप्यसौ च्यावयितुं शक्यत एतेत्युभयविधिवचनमनबद्यम् । तथा च 'आदौ सर्वप्रयत्नेन राष्ट्रमुख्यैर्नरेश्वरः । परीक्ष्य सर्वैः कर्तव्यो धार्मिकः सत्यसंगरः'। इति राजा संग्राह्य इत्युक्तम् । तत्रापि प्रथमं राजत्वसाधकं प्रजारननं यस्य भवेदसौ यौगिक्या संज्ञया राजेत्युच्यते इति मुख्यलक्षणं राज्ञः । यथा चाभियुक्ता रघुवर्णने । 'यथा प्रह्लादनाश्चन्द्रः प्रतापात्तपनो यथा ।। तथैव सोऽभूदन्वर्थों राजप्रकृतिरञ्जनात् ' ॥१॥ इति यथा मनुः । –' मौलाञ्च्छास्त्रविदः शूराँल्लब्धलक्ष्यान्कुलोद्गतान् । सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ' ॥ २ ॥ इति 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy