________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16)
नीतिकल्पतरुः।
पंचेन्द्रियजयं कृत्वा गुणषटकमुपाश्रयेत् । बुद्धा बलाबलं सम्यगात्मनश्च परस्य च ॥ ६ ॥ राजदोषाश्च ये सप्त येन त्यक्ता नराधिप । सिद्धिं तस्य समायान्ति यथाकालं गुणा मृप ॥ ७ ॥ मृगयापानमक्षाश्च स्त्रियश्च परुषा गिरः। अर्थसंदूषणं चैव दण्डपारुण्यमेव च ॥ ८ ॥ एते सप्तमहादोषा[६८ब]महीपानां प्रकीर्तिताः ।
रता येषु महीपालाः समूलं नाशमानुयुः ॥९॥ षड्गुणनिरूपणं चाग्रे सविस्तरं वक्ष्यामः ।
इत्येकादिसप्तकान्तज्ञानाभिधं कुसुमममष्टाशीतितमम् ।।
[८९] अथ च शयगता भूश्च धीसाधनस्येति शस्त्रादिकं कार्यसाधकं तावदस्तु यस्तु तत्स्थानीयां धियमेवाधिकां मन्यते तस्य धीसाधनस्य भूर्भूमिः शयगताऽवश्यं हस्तं यास्यतीति ।
'एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुर्पता। बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्र सराजकम् ' ॥ १ ॥ इति 'एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्र सप्रजं हन्ति राजानं मन्मविसवः ' ॥२॥ मन्त्रविस्रवः मन्त्रप्रसारणम् । एतदाशयेनैव राजपुरुषाणां धीबाणेत्याख्या, धीरेव बाणः कार्यसाधकं यस्येति कृत्वा ।
इति धीमाहात्म्यकथनाभिधमेकोननवतितमं कुसुमम् ।
तथा:
[९०]. इस्थं पण्डितापण्डितलक्षणं समूलं निदर्शनं प्रदर्थेदानी नीतौ दर्शयितव्यायां राजतदुपकरणलक्षणं तावदवतारयति राजेति द्वाभ्याम् ।
For Private and Personal Use Only