________________
Shri Mahavir Jain Aradhana Kendra
L
नीतिकल्पतरुः ।
चत्वार्या महाराज सद्यस्कानि बृहस्पतिः ।
पृच्छ्यते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ १९ ॥ देवतानां च संकल्प मनुभावन्तु धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ' ॥ २० ॥ संकल्पश्चिकीर्षितम् । विनाशो मरणं सद्यः फलदं भवति नरकहेतुर्भवति । इति चतुष्कज्ञानम् ।
' पश्चामयो मनुष्येण परिचर्या: समंततः । पितामाताग्निरात्मा च गुरुश्च भरतर्षभ ॥ २१ ॥ पंचैव पूजयं लोके यशः प्राप्नोति केवलम् । देवान्पितृन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ' ॥ २२ ॥
मनुष्या अत्र ऋषयः ।
www.kobatirth.org
अप्रवक्तारं रहस्यस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
'पंचोन्द्रियस्य मत्तस्य छि[ ६७ ]दं चैकैकमिन्द्रियम् । ततोऽस्य क्षरति प्रज्ञा दृतेः '... पादादिवोदकम् ' ॥ २३ ॥ छिद्रमसंवृत्तम् । पादादाननात् ।
इति पंचकज्ञानम् ।
6
षट्दोषा पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तंद्री भयं क्रोध आलस्यं दीर्घसूत्रता ' ॥ २४॥ भयं स्वोच्छेदबुद्धिः ।
' षडिमान्पुरुषो जह्याद्भिन्ना नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ २५ ॥ अरक्षितारं राजानं भार्यां चाहितवादिनीम् । ग्रामकामं च गोपालं वमकामं च नापितम् ' ॥ २६ ॥
1 Corrupt.
' षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः' || २७ ॥
For Private and Personal Use Only
१७१