________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः। न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ १०॥ द्वाविमौ प्रसते भूमिः सर्पो बिलशयानिव ।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ' ॥ ११ ॥ ब्राह्मणः परिबाट तस्य परितो भ्रमणौचित्यात् ।
'द्वाविमौ पुरुषौ राजन्सूर्यमंडलभेदिनौ । परिवाड् योगयुक्तश्च युद्धे चाभिमुखं हतः' ॥ १२॥ ... इति द्विकज्ञानम् । .... 'त्रयो न्याया[६७अ) मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति धर्मविदो विदुः' ॥ १३ ॥ न्यायश्चारित्रम् । ज्ञान-योग-कर्मभेदेन त्रिविधमिदम् ।
'त्रिविधाः पुरुषा राजन्नत्तमाधममध्यमाः ।
नियोजयेद्यथावृत्तं त्रिविधेष्वेव कर्मसु ' ॥ १४ ॥ एतन्निरूपणमने कर्मभेदनिरूपणे भविष्यति ।
'त्रय एवाधना राजन्भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति वस्य ते तस्य तद्धनम् ॥ १५ ॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ' ॥६॥
__ इति त्रिकज्ञानम् । 'चत्वारि राज्ञा तु महाबलेन वान्याहुः पण्डितास्तानि विद्यात् ।
न दीर्घसूत्रैः सहमंत्रं प्रकुर्यादल्पप्रज्ञैरलसैश्चारणैश्च ' ॥ १७ ॥ अलसैरितिस्थाने रभसैरिति कचित्पाठः । रभसैर्हर्षतरलैः चारणैः सदिस्ततश्च.
रणशीलैः। 'चत्वारि ते तातगृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे । वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या' ॥८॥
वृद्धज्ञातेः कुलधर्मोपदेशकस्वात् । अवसन्नः श्रान्तः कुलीनोऽतिथित्वेन, अन्यथा श्रान्तातिथिसत्कारस्यावश्यकार्यस्य कुलीनत्वाभावे चौर्यायनर्थदोषायत्तेः । सखा दरिद्र ऋणी तस्य तदर्थ यत्नप्तंभवात् ।
For Private and Personal Use Only