SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । तथा चैकादि [ ६६ ] क्रमेणोदाहरणमेवास्य व्याख्यानम् । एकं द्वौ त्रनिष्यत्र चतुरः पंचषट्सप्तमूलं चाष्टौ सम्यग्धीमान्नवदश तथैकादितः सप्त यावत् । ज्ञात्वा युंजयाद्य इहकालनाभिज्ञ ईषन्नचास्य त्रासः प्रेत्येह च शयगता भूश्च धीसाधनस्य ॥ ४ ॥ 'एकमेवाद्वितीयैतद्यद्राजन्नावबुध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ' ॥ १ ॥ धृतराष्ट्रं प्रति सञ्जयवचनमेतत् । अद्वितीयेति विभक्तिलोपः आर्षः । अथ वाद्वितीये त्यामंत्रणपदमेतत् । तथा । - ' एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विधैका परमादृष्टिरहिंसैका सुखावहा || २ | एकः क्षमवतां दोषो द्वितीयो नोपलभ्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ३ ॥ सोऽप्यदोषोऽस्य मन्तव्यः क्षमा हि परमं बलम् । अक्षमावान्परं दोषैरात्मनमपि योजयेत् ' ॥ ४ ॥ स्वस्य हिंसादोषः परस्य मृत्युरिति । 6 एकः स्वादु न भुञ्जीत एक श्वार्थान चिंतयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ' ॥ ५ ॥ इत्येकज्ञानम् । ' द्वे कर्मणी नरः कुर्वन्नत्र लोके विराजते । अब्रुवन्परुषं कंचिदसतो नार्थयस्तथा ॥ ६ ॥ द्वाविमौ पुरुषव्याघ्र पर प्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ ७ ॥ द्वाविमौ कण्टकौ राजन्शरीरपरिशोषणौ । यश्चाधनः कामयते यश्चकुप्यत्यनीश्वरः ' ॥ ८ ॥ शरीर स्वशरीरम् । ' द्वाविमौ पुरुषौ राजन्सर्वस्योपरितिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रतापवान् ' ॥ ९ ॥ For Private and Personal Use Only १
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy