________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
नीतिकल्पतरू। न च यं यं वापीति स्मृतिविरोधः । तत्राप्येतदाशयात् । तथा च यं यं भावं स्वास्थ्यवेलायामसौ स्मरन्नासीत तस्यां पुनरसौ तं तं भावं स्मरन्वापि [६६) शरीरसंस्कारादस्मरन्तं तमेवेति न पुनस्तात्कालिकमेवेत्यनेन सूचितम् । अतश्च 'तस्मात्सर्वेषु कालेषु मामनुस्मरेति' निगदितम् । यथा तस्यामपि वेलायां स एव भावितो भावः स्मृति यातीति सिद्ध तीर्थादिसेवा, सत्कालवेलासम्प्रातिस्तात्कालिकस्मरणादिकं वा ज्ञाततत्त्वानां पुण्यवर्धकानीति । तथा ज्ञाततत्त्वसाक्षाकाराणां सर्वधर्माधर्मकलना यथा स्थितैव न कथंचनापि धर्ममधर्म वा स्वफळमदत्त्वा विलीनं जायत इति । अत्र बहुश्रुताबहुश्रुतविशेषोऽकिंचित्करः। न खलु बहुश्रुतस्य पापं न स्पृशतीति, अबहुश्रुतस्य वा स्पृशतीति विचारो विमर्दसहः । तथा च धृतराष्ट्र-विदुर-सनत्सुजातप्रश्नोत्तरिकाख्यायिका । तत्र धृतराष्ट्रः।
'ऋचो यजुष्यथर्वेदं सामवेदं च वेद यः ।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते' ॥९॥ सनत्सुजातः। -
। नैव सामनाचो वापि न यषि विचक्षणम् । त्रायन्ते कर्मणः पापान ते मिथ्या ब्रवीम्यहम् ॥१०॥ आधाय स्वधियं धीमान्कुर्यात्कार्यविनिर्णयम् । अंधस्येवान्धलमस्य विनिपातः पदे पदे' ।। इति ॥ इति प्रासंगिककथनामिधं षडशातितमं कुमुमम् ।
[८७] इति प्रासंगिकं परिसमाप्य प्रकृतं निगद्यते । एकमित्यादि । अत्रार्थः।यो धीमान्कलनाभिज्ञः वृत्तवर्तमानवर्तिष्यमाणकलनाचतुर एकादिदशान्तं तत्त. परिच्छेद्यवस्तूनि ज्ञात्वैकादिसप्तकान्तं वा परिच्छेद्यवस्तूनि ज्ञात्वा हेयोपादेयकलनाय यथास्थानं युम्ज्यात् । अस्य धीसाधनस्य स्वबुद्धयुपकारणस्य प्रेत्य परलोके इह चेहलोके वा न नरकशास्त्रवादिभव ईषत् श्लेशमात्रेणापि जायते । भूश्च शयगता हस्तप्राप्तास्य भवेत् । निःसपत्नमखण्डं भूराज्यं कृत्वा सुगतिमामोतीत्यर्थः।
For Private and Personal Use Only