________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरूपतः। 'उज्झिस्वात्मसमाधानं ध्यायन्यन्यान्यदेवताः । भिक्षन्ते भूरिवित्तास्ते भिक्षित्वाऽपि बुभुक्षिताः ॥१॥ योऽन्यथा सन्तमात्मानमन्यथा प्रति [ ६५ ब ] पचते ।
किं तेन न कृतं पापं चौरेणात्मापहारिणा' ॥२॥ इति कृतं बहुना।
इयत्पुनरत्र शिष्टं वर्तते । साक्षात्कृतत्वस्य तस्वसाक्षात्कारो वा गतिप्रदोमरणवेला वेति । तत्र तावदुत्तानबुद्धयः केचित्
'यं यं वापि स्मरन्भावं त्यजस्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय तदा तद्भावभावितः ' ॥३॥ इति स्मृतिप्रामाण्यात्पर्यतिक्येव वेला गतिकारणमिति । न चाप्यसौ निया साक्षास्कृततस्वस्यासौ वेलाऽवश्यं स्मृतिदायिनीति महात्मनामपि तद्वेलायामतिगहनत्वात् । अत्राभियुक्तः साक्षात्कार एव गतिकारणमिति । तथा च कृतनाशाकृताभ्यागमप्रसंगो निरवकाशो भवति । पतंजलिना चेदमेव निबद्ध
'करणगणसंप्रमोषः स्मृतिनाशः श्वासकहिलताच्छेदः । समर्मरुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ४ ॥ स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि ।
मरणावसरे योगी न च्यवते स्वात्मपरमार्थात् ' ॥५॥ इति ॥ न चास्य तीर्थपरिग्रहादि नियमोऽपि कचिद अधिगतस्य स्वात्मपरमार्थस्य सर्वतीर्थतीर्थत्वात् । तथा च स एव तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः' ॥६॥ इति पसिष्ठोऽपि तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथवा ।
ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशयः ॥ ७ ॥ इति तीर्थादि नियमः पार्यन्तिकवेलास्मरणादिकं चाज्ञाततत्त्वानामुपकारकं बानतत्त्वानां पुनस्तत्त्वसाक्षात्कार एव फलवानिति । तथा च पतंजलिरेवः
'पुण्याय तीर्थसेवा, निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन' ॥ ८॥ इति
For Private and Personal Use Only