________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतकः ।
न वीक्षत एव यदि कदाचियुक्त्या दशा......'पीक्षतेऽपि वा तदनृतात्मना वीक्षते इति । अयमत्र संक्षेपः
आधः संघातदर्युक्तो द्वितीयः करणात्मकः । ब्रह्मैकदर्शी गदितस्तृतीयः पारमार्थिकः । ॥ २३ ॥ इति तत्राद्ययोरविद्याकल्पितत्वेन जडत्वेऽपि जीवत्वसाधकैश्च तत्पयो-योदृष्टान्तद्वाराचार्दर्शितो यथा।--
'माधुर्यद्रव्यशैत्यादि जीवधर्मा तरङ्गके। अनुगम्यापि तनिष्ठे फेनेऽप्यनुगता यया ॥ २४ ॥ साक्षिसाः सच्चिदानंदाः संबद्धा व्यावहारिके ।
तद्वारेणानुगच्छन्ति तथैव प्रातिभासिके' ॥ २५ ॥ इति इत्यनुलोमक्रमेण यथा सच्चिदानंदानां यथावतरण तथा प्रतिलोमक्रमेणारोहणमपि येन मोक्षलाभ इति स्थितम् । तथा च
'प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके।
तल्लये. सच्चिदानंदाः पर्यवस्यन्ति साक्षिणि ' ॥२६ ॥ इति इति पारमार्थिकपांडित्यकथनाभिधाने तृतीयप्रकांडे सच्छास्त्रार्थवर्णनाभिधो जीवब्रह्मैक्यवर्णनाभिधश्च पंचाशीतितमो गुच्छकः ।
[८६] इत्थं पारमार्थिकपाण्डित्ये कृतनिर्णये पारमार्थिकमौय॑स्यावसरप्राप्तौ सल्यामप्यसछास्त्रपारतयैव तल्लक्षणं गतप्रायं सन्नुपादेयत्वेन च पुनर्निदर्शनानई तत्, तस्माधाकिचित्सच्छास्त्रार्थव्यतिरिक्तविहितविपरीतप्रतिषिद्धसेवनलक्षणं विहितासेवनलक्षणं वा । तत्र दुष्टयोनिनरकपशुस्थावरादियोनिप्रापकं तत्सर्व पारमार्थिकमोममिति स्थितम् । अतिगौरवास्किचिद्वितन्यते दिङ्मात्रेण, चोपहसिता एव त: इति किंचिन्मात्रेण निदर्श्यते ।
-
1 Corrupt,
For Private and Personal Use Only