SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ नीतिकल्पता 'चिदाभासे स्थिता निद्रा विक्षेपावृत्तिरूपिणी । आवृत्य जीवजगती पूर्व नूत्नेन कल्पयेत् ' ॥१६॥ पूर्व सुषुप्तिप्रलययोः प्रविकल्प्य स्वात्मसात्कृत्वा पुनः प्रबोधसृष्ट्येनूतनरूपेण कल्पयेत् । पुनर्जीवजगद्वयवहारं प्रवर्तयेत् । अत एवानयोः प्रातिभासिकत्वमित्याहुः। 'प्रतीतकाल एवैते स्थितत्वात्प्रातिभासिके । न हि स्वमप्रबुद्धस्य पुनः स्वामस्थितिस्तयोः ॥१७॥ तस्मात्प्रातिभासिकजीवस्तु जगत्तत्प्रातिमासिकम् । वास्तवं मन्यते यस्तु मिथ्येति व्यावहारिकः' ॥१८॥ स प्रातिभासिकजीयो यस्तत्स्वप्नकल्पितं जगत् देहोऽहं ममुष्योऽहमित्यादिलक्षणम् । 'वास्तवं मन्यते यः पुनरिदं जगन्मिध्येति मन्यते । स्वममतस्य जानद्वयवहाराभावात् ' ॥ १९ ॥ असौ व्यावहारिकजीवः परलोकादिव्यवहारासमर्थकत्वात् । तथा च व्यावहारिकजीवलक्षणम् । भोक्वेत्यादिव्यवहारोचितः परलोकगामीचेति । तथा च 'भारतीनूपुरझांकारेः 'कर्तृत्वाधभिमानादिह परगामी च धीगता छाया । जीवो व्यवहर्तासौ न भियते जातुचित्तस्मात् ' ॥२०॥ इति न भिद्यते जातुचित्तस्मादित्युक्तिस्तु पारमार्थिकजीवेनास्य व्यावहारिकजीवस्यैकसमारोपेण सामान्यतयेति समाधेयम् । ततश्च 'व्यावहारिकजीवस्तु जगद्वयावहारिकम् । सत्यं प्रत्येति मिध्येति मन्यते पारमार्थिकः ॥ २१ ॥ सत्यं कालत्रयाबाध्यम् । य इत्थं मन्यते स व्यावहारिकजीव इति योजना । यस्तु मिथ्येति मन्यतेऽसौ पारमार्थिकः इत्यं च । .. [६५अ] ' पारमार्थिकजीवस्तु ब्रह्मैकं पारमार्थिकम् । प्रत्येति वीक्ष्यते नान्यद्विक्षते त्वनृतात्मना' ॥२२॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy