SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ मीतिकल्पतरुः। इस्थमध्यारोपेणाद्वैतं समापवादेन तन्निरासप्रकारमाह । तस्येति । यथाप्तोपदेशेन स्वयमूहितेन वा नायं सर्पः किन्तु रज्जुरिति विशेषदर्शनकालेऽधिष्ठानरज्जुसाक्षात्कारेण रज्जुज्ञाननिवृत्तौ सर्पभ्रान्तिनिवृत्तिपूर्व तज्ननितं दुःखादिकं निवर्तते । तथाप्तोपदेशेन स्वयमूहितेन वा विशेषदर्शनकालेनेदं भानं सकलं स्वात्मना किं च न ब्रह्मैवेदं सर्वमिति साक्षात्कारेण तदज्ञाननिवृत्तौ जगद्धान्तिनिवृत्तिपूर्व तन्ननितदुःखादिकं निवर्तते इति । तथाचार्याः 'ब्रह्मण्यवस्थिता मायाविक्षेपावृत्तिरूपिका । आवृत्याखंडता तस्मिञ्जगज्जीवौ प्रकल्पयेत्' ॥ १२ ॥ इति । जीवगतश्च विशेषस्तैरेव विवृतो यथा । ' अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिविधो जीवस्तत्रायः पारमार्थिकः । ॥ १३ ॥ अवच्छिन्नो घटाकाशादिवत्प्राणादिसंघातावच्छिन्नःप्रत्यगात्मेत्येकः । उदक इव सूर्यादेर्बुद्धयाधुपाधौ चित्प्रतिबिम्बोपाधिधर्मास्कंदितो द्वितीयः । देवोऽहं मनुष्योऽहमित्येवं स्वप्न इव स्थूलसंघाताभेदेन कल्पितो जीवस्तृतीयः। तत्रायोऽवच्छिन्नः पारमार्थिकमुक्तियोग्य इत्यर्थः । कथमवच्छिन्नस्य पारमार्थिकतेस्यत्रापि तैरेव समर्थितम् । - 'अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिञ्जीवत्वमारोपात्बह्मत्वं तु स्वभावतः' ॥ १४ ॥ कल्पित इति निरवयवस्यावच्छेदायोगानुपाधिपरिच्छेदेनैव तत्परिच्छेद इति भावः । वास्तवमिति त्ववच्छेदस्य । कल्पितत्वेऽपि तदवच्छेद्यं वास्तव चरणावरणसमारोपे चरणवेष्टनस्यावास्तवत्वेऽपि चरणत्वेन वेष्टयमानं वास्तव. मेवेति । [६४ ब ] तस्मादिदमत्र सिद्धमित्याहुः । अवच्छिन्नस्य जीवस्य तादात्म्यं ब्रह्मणा सह । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ १५ ॥ . इतरजीवयोश्चिदाभासस्वप्नकल्पितयोः सृष्टिप्रलयजागरस्वप्नव्यवस्था पुनरत्रेत्यमिति च तैरुक्तमिति निशम्यताम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy