________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
परन्त्याचरन्ति तत्त्वमात्मज्ञानम् ।
'अमन्यमानः क्षत्रिय किंचिदन्यन्नाधीयते बाल इवाश्मव्याघ्रम् । क्रोधालोमान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः' ॥९॥
अमन्यमान आत्मनोऽन्यत्किंचिदजानन् असावन्यत्किंचिद्विषयजातं नाधी. मीत न प्राप्नुयात् । अत्र व्यतिरेकदृष्टान्तः । यथा बालोऽश्मव्याघ्र व्याघ्रत्वेन जानाति प्रमादे सत्यमृत्यु...ष्टमान एवास्तु इत्याह । क्रोधेति मृत्युस्त्वच्छरीरे य एष इति प्रमादेन मृत्युसत्वमुपपादितम् । तत्र कोऽसौ प्रमाद इति प्रमाद. स्वरूपं 'भारतीनूपुरझांकारे' स्फुटमुक्तम् । यथा ।
' वस्तुन्यवस्तुकलनाज्ञानं शक्तिद्वयेन तत्सकलम् ।
आभास इति निरासे तस्याद्वैतं परं ब्रह्म ॥ १०॥ अत्रार्थः।--- यथा व्यावहारिकवस्तुवेनाभिमते रज्जौ भ्रमेण अवस्तुभूतसर्पकलना तथा सच्चिदानंदात्मकब्रह्मवस्तुनि अवस्तुभूतसकलजडं पदार्थकलनाज्ञानमित्युध्यते । कथमिदं तथात्वेनोल्लसतील्याह शक्तीति । अस्याज्ञानस्य तथा भासनायामावरणविक्षेपाख्ये शक्ति द्वे स्तो याभ्यामर्थोल्लासयतीति । तत्र यथा रज्जुस्वरूपस्य विद्या तदावरणकर्तीत्वादावरणशक्तिस्तत्र सर्पाकारभासेन परिणममाना सर्पाकारविवर्तेन विक्षिपति । तथाभासे मरणपर्यन्तदुःखदानेन व्याकुलयतीति विक्षेपशक्तिः तथा सच्चिदानंदस्वरूपस्य तदावरणकर्तीत्वादावरणशक्तिब्रह्मादिस्थावरान्तनामरूपात्मकजगदाकाराभासेन परिणममाना जगदाकारविवर्तेन विक्षि. पति, तत्सृष्टवानेकविधदुःखदानेन व्याकुलयतीति. शक्तिद्वयोपेतमज्ञानमज्ञानं सकलमाभासयतीति कथनस्याशयः । रज्जुस्वरूपावरणेन सर्पाकारविवर्तनं च यथा रज्जुस्वरूपे न काचन हानिर्दृष्टा [६४अ] बुद्धेरेवावरणनिक्षेपसमापतिरेवं स्वरूपावरणेन जगदाकारविवर्तनं न ब्रह्मणो वस्तुनः स्वरूपे हानिः प्रमाबुतृःरेवावरणविक्षेपसमापत्तिरिति । तथा चाचार्या:
'घनच्छनदृष्टिनच्छन्नमर्क यथा मन्यते निष्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढबुद्धेः स नित्योपलब्धिस्वरूपोऽहमात्मा॥११॥ इति
1
Corrupt.
For Private and Personal Use Only