SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ नीतिकल्पतरुः । [६३ अ] सनत्सुजातः । अपृच्छः कर्मणा यन्मां मृत्युर्नास्तीति चापरम् । शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ' ॥ २ ॥ कर्मणा ब्रह्मचर्यादिना मृत्युर्नास्तीति मृत्युसंभावमपरं नात्स्येव मृत्युरिति । 'उभे सत्ये क्षत्रिय तस्य विद्धि मोहान्मृत्युः संमतो यत्कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ' ॥ ३ ॥ " प्रमादे पुनः Acharya Shri Kailassagarsuri Gyanmandir यत् यस्मात्कवीनां मोहान्मिथ्याज्ञानान्मृत्युः संमतस्तस्मादुभे सत्ये, मोहसत्वे मृत्युरस्ति तनिवृत्तौ नास्तीति फलितमाह । प्रमादमिति । प्रमादः स्वाभाविकस्वरूपविस्मृतिः, अप्रमादः स्वाभाविकस्वरूपेणावस्थानमिति । 'प्रमादाद्वा असुराः पराभवन्नप्रमादाद्बह्मभूताः सुराश्च । नैवं मृत्योर्व्याघ्रादिवोद्विजन्ति नाप्यस्य रूपमुपलभ्यते हि ' ॥ ४ ॥ प्रमादिनोऽसुरास्ते, ये पुनरप्रमादिनस्ते सुरा इति । एवमित्यप्रमादे । ' यमं त्वेके मृत्युमतोऽम्यमाद्दुरात्मावासममृतं ब्रह्मचर्यम् । पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥५॥ आत्मावासं शारीरिणम् । चरणमाचरणं चरस्तमर्हतीति चर्यः । अमृतं ब्रह्मचर्यम् तदाचरणाईः अस्मदादिवत्तदुपासनपर इत्यर्थः । असमश्वः समास आ ततध ' कामानुसारी पुरुषः कामाननुविनश्यति । कामान्न्युदस्य धुनुते यत्किंचित्पुरुषो रजः ' ॥ ६ ॥ अयं च कामः—‘तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते । गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रवत्सुखम् ' । ७ ॥ कामेनाकार्यकरणादसौ कामस्तमो भूत्वा नरकरूपेण परिणमते । तत्र गृह्यन्तोऽन्येन बलाद्गृहीता इव सुखार्थं धावन्तीति । एतदेवं संगृह्णाति । ' अविद्या वै प्रथमं हन्ति लोकान्कामक्रोघाववगृह्याशु पश्चात् । एते बलात् प्राप्नुवन्ति धारास्तु धैर्येण चरन्ति [ ६३ ] तत्त्वम् ॥८॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy