________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१.
तथा
नीतिकल्पतरुः मनुः।- 'पाषंडिनो विकर्मस्थान्बैडालव्रतिकान्छठान् ।
हैतुकान्बकवृत्तींश्च वाड्मात्रेणापि नार्चयेत्' ॥२६॥ सत्र वेदबाह्यागमोक्तकारी पाषंडी, आश्रम व्यक्तिरिको वा, युक्तिवलेन श्रुतिस्मृत्युक्तधर्मदूषयिता हैतुकः । तथा 'न वार्यपि प्रयच्छेत्तु बैडालवतिके द्विजे ।
न बकवतिके विप्रे नावेदविदि वेदवित् ॥ २७ ॥ . धर्मध्वजी सदालुब्धश्छामिको लोकदांभिकः । बैडालवतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥ २८ ॥ यस्य धर्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः । प्रच्छन्नानि च पापानि बैडालं नाम तद्वतम् ॥ २९ ॥ अधोदृष्टिनैष्कृतिकः स्वार्थसाथनतत्परः । शठो मिथ्याविनीतश्च बकवृत्तिरुदाहृतः ॥ ३०॥ ये बकवतिनो विप्रा ये च मार्जारलिङ्गिनः। ते पतन्स्यन्धतामिस्त्रे तेन पापेन कर्मणा ॥ ३१॥ अलिङ्गी लिङ्गवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ ३२ ॥ इति धूर्तवर्जनाभिधं कुसुमम् चतुराशीतितमम् ।
[८५] अथ च सुजनशुभशास्त्रार्थनिरतैरित्युक्तं तत्र यदर्थमुक्तलक्षणशुभशास्त्रार्थसेवा येन च तत्सेविनां सुजनत्वम् । तत्पर्यन्तकाष्ठाभ्यात्मशास्त्रं सर्वमूर्धनि यदर्तते तदिदानी सनत्सुजातीयादि मुखेन किंचिन्निदयते । तत्र धृतराष्ट्रवाक्यम्
' सनत्सुजात यदिदं शृणोमि न मृत्युरस्तीति तव प्रवादम् ।
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नुसत्यम् ' ॥१॥ तव प्रवादः शिष्यान्प्रति त्वयोपदिष्टमिति विदुराच्छ्तम् । देवासुराश्च मृहुनयार्थ ब्रह्मचर्य, गुरौ वासादिकमाचरन् कृतवन्त इल्यसतो निवर्तनासंभवामृत्युरस्तीति लक्ष्यतेऽतः संदेहः ।.
For Private and Personal Use Only