SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ नीतिकल्पतरुः। न केवलं व्यसनत्याग एव सुजनत्वसंपादको यावद्धविद्धर्मसेवनं तत्त्वापादकं सन्ति च केचिद्यथा जाता एव पशुधर्माणो न हि ते सुजनेषु प्रविशन्तीति । उभयमृष्टा ह्यमी । तथा च मनुः - चतुर्भिरपि चैवैतैर्नित्यमाश्रमभिर्द्विजैः ।। दशलक्षणको धर्मः सेव्यतव्यः प्रयत्नतः ॥ ११ ।। धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियसंयमः । धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ १२ ॥ इति सुजनतानिरूपणाभिधं कुसुमम् । [८३] सौजन्यसंपत्तिनिमित्तं च शुभशास्त्राणि यान्यास्तिक्यप्रवर्धकानि इति शुभशास्त्रेत्यवतारितं तानि च यानि धर्मनिरूपणैकतत्पराणि । (६०ब) तान्युद्दिश्यति स्म याज्ञवल्क्यः ! पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदस्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १ ॥ इति अत्र मीमांसा वाक्यविचाररूपत्वात्पूर्वोत्तरभेदभिन्नाया उभय्या अपि ग्रहणम् । तेम विद्यावविद्ययोऽपि न पृथग्यत्ननिष्पाद्यत्वमिति ध्येयम् । तथा च ब्राह्मे ---- एवं चतुर्दशैतानि धर्मस्थानानि सुव्रत । वेदान्तः पञ्चदशमं विद्या षोडशिका भवेत् ।। इति पृथनिर्देशेऽपि न संख्याधिक्यमिति । तत्र वेदान्तः शारिकम्, विद्या बृहदारण्यकादि रहस्यम् । इत्थं च एतेभ्योऽपि यदन्यत्स्यात्किंचिद्धर्माभिधायकम् ।। . तदरतरतो विद्धि मोहस्तस्याश्रयो मतः ॥ २ ॥ इति एतेभ्यः पुराणादिभ्यो यदन्यत्तत्पौरुषेयत्वाद्धेयमिति स्थिते शैवपांचरात्रपाशुपतादीनामतिप्रमाणत्वावदूषणमेव स्वीकारनिमित्तमिप्ति समाधेयम् । तथा चः- सांख्यं योगः पांचरात्रं वेदाः पाशुपतं तथा । अतिप्रमाणान्येतानि हेतुभिर्न विचालयेत् ॥ ३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy