SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । निशम्यासाव हो कार्य नाशितं मे कुबुद्धिना । इत्यामृषन्निरासैनं दण्डताडनपूर्वकम् ॥ ८ ॥ इति केवलतर्किमूर्खाभिधमेको नाशीतितमं कुसुमम् । [ ८० ] न साहसेन कर्तव्यं कार्यं जात्वपि धीधनैः । सहसा चेष्टमानो हि हन्यते लोकयोर्द्वयोः ॥ १ ॥ तथा च देवशर्माख्यो ब्राह्मणो नगरे कचित् । अभूत्तस्य च भार्याभूद्देवदत्तेति विश्रुता ॥ २ ॥ धृतगर्मा च सा तस्य कालेऽस्य सुषुवे सुतम् । दरिद्रोऽपि स तं मेने निधिं लब्धमिव द्विजः ॥ ३ ॥ सूतकान्ते च सा तस्य भार्या स्नातुमगान्नदीम् | देवशर्मापि तस्थौ स गृहे रक्षन्सुतं शिशुम् ॥ ४ ॥ तावद्वाह्वायिका तस्य राजान्तःपुरतो द्रुतम् । चेटिका ब्राह्मणस्यागात्स्वस्तिवाचनजीविनः ॥ ५ ॥ ततः स दक्षिणालोभा[५९ अ ]न्नकुलं रक्षकं शिशोः । स्थापयित्वा ययौ गेहे चिरमाबाल्यसेवितम् ॥ ६ ॥ तस्मिन्गते ततोऽकस्माच्छिशोस्तस्यान्तिकागतम् । सर्पमालोक्य नकुलः स्वामिभक्त्या जघान सः ॥ ७|| अथ तं देवशर्माणमागतं वीक्ष्य दूरतः । सर्पासितो नकुलो हृष्टोऽस्य निरगात्पुरः || ८ ॥ स देवशर्मा तद्रूपं तं दृष्ट्वैवाश्मनावधीत् । ध्रुवं हि बालः पुत्रो मे हतोऽनेनेति संभ्रमम् ॥ ९ ॥ प्रविश्य चान्तर्दृष्ट्वा तं भुजगं नकुलाहतम् । जीवन्तं तं स्थितं बालं ब्राह्मणोऽन्तरतप्यत ॥ १० ॥ अविचार्योपकारी हि नकुलो किं मया हतः । इत्युपालभतायाता भार्यापि तदवेत्य तम् ॥ ११ ॥ इति साहसिकमूर्खाभिधमशीतितमं कुसुमम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy