________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोतिकल्पतरू। म वानुद्यमिना तर्ककारिणा केवलं तथा । तस्माद्विचार्य मतिमान्भृत्यं कुर्याद्वयोज्वलम् ॥ २ ॥ दृश्यतां स्वामिना भृत्यो जगदे भोस्त्वया प्रगे । ग्रामे ५८ब] गन्तव्यमस्तीतः शीघ्रकार्यमुपस्थितम् ।। ३ ॥ श्रुत्वेत्यपृष्ट्दैव विभुं तत्कार्य प्रातरेव सः । गत्वा वृथैव तं ग्रामं तत आयात्कृतश्रमः ॥ ४ ॥ प्रामं गत्वाहमायात इत्याह स्वामिनं च सः । गत्वेऽपि च किं सिद्धिं ममत्याह स्म तं प्रभुः ॥५॥ तदेति निरतिप्रायचेष्टितो लोकहास्यताम् । मोऽनुभवति केशं कार्यस्यातिक्रमोऽपि च ॥ ६ ॥
इति केवलोद्यमिमूर्खाभिधं कुमुमम् ।
[७९] तथान्यः स्वामिना भृत्यो जगदे श्वस्त्वया प्रगे । अवश्यकार्य पतितं गन्तव्यं शीघ्रमेव तु ॥ १ ॥ संस्थाप्यैव च तत्कार्य परश्वस्तेऽथ नु पुनः । सायमाप्तव्यमत्रेति न वेलातिक्रमेदिति ॥ २॥ निशम्य कार्य तत्तस्य विचार्य च पुनः पुनः । अहो संकटमेतन्मे कार्यमद्य पुरःस्थितम् ॥ ३ ॥ उक्तं च स्वामिना शीघ्रं परश्वः सायमेव हि । आगन्तव्यं कथं चैतत्सिद्धयेदैवं हि दुर्घटम् ॥ ४ ॥ एतावानेव मार्गोऽयं नात्रास्ति विमतिः परम् । वृष्ट्यातपौ निरन्ध्यात्कः क्षेपोऽप्यत्र भवेन्मम ॥ ५ ॥ मास्तां वै तत्कथं नाम मार्गे प्रवहतो मम | चौरसत्त्वादिभिश्चापि ततः शङ्का कथं न हि ॥ ६ ॥ इत्यादि विमृशन्नेव दिनं तदभ्यवाहयत् । सायं स्वामिनमागत्य तदाचक्षौ स्वतर्कितम् ।। ७ ।।
For Private and Personal Use Only