________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
गुरोः शिष्यः स चरणं बलाद्ग्राव्णा बभञ्ज ह। मुक्ताक्रन्दे गुरौ तस्मिन्कुशिष्योऽन्यैः प्रविश्य सः ॥ ७ ॥ ताज्यमानः सशोकेन गुरुणानेन मोचितः । अन्येयुः सोऽपरः शिष्यः प्राप्तो प्रामाद्विलोक्य ताम् ।।८॥ पादपीडां गुरुपृष्टवृत्तान्तः प्रज्वलन्क्रुधा । नाहं धनजिनं पादं तस्य संबधिनो द्विषः ॥ ९॥ इत्याकृष्य द्वितीयाधिं गुरोस्तस्य बभञ्ज सः।। ततोऽत्र ताइयमानोऽन्यैरपि भग्नोभयाज्रिणा ॥ १० ॥ गुरुणा तेन कृपया दुःशिष्यः सोऽप्यमुच्यत । सर्वद्वेष्योपहास्यौ तौ शिष्यौ द्वौ ययतुस्ततः । गुरुश्च क्षमया श्लाध्यः स्वस्थः सोऽप्यभवत्क्रमात् ॥११॥ एवमन्योन्यविद्विष्टो मूर्खः परिजनः प्रभुः ।
स्वामिनोऽयं निहन्त्येव न चात्महितमश्नुते ॥ १२ ॥ इत्यन्योन्यविद्वेषिमूर्खाभिधं पश्चसप्ततितम कुसुमम् ।
[७६ ] विशेषज्ञात्यता पुंसां न जातु[५८अ विफला भवेत् । तदज्ञाने ध्रुवं स्थूलदार्शनां स्यात्पराभवः ॥ १॥ अल्पोऽपि हि गुणो जातु कस्यचिद्धितकृन्मनः । नान्तरज्ञेन हेयोसावापातबहुदर्शिना ॥ २ ॥ तथा च द्विशिरःसर्पवृत्तान्तोऽयं निशम्यताम् । कस्याप्यहेर्द्व शिरसी अभूतामग्रपुच्छयोः ॥ ३ ॥ पौच्छं शिरस्त्वभूदन्धं चक्षुष्मत्प्रकृतं पुनः । अहं मुख्यमहं मुख्यमित्यासीदाग्रहस्तयोः ॥ ४ ॥ सर्पस्तु प्रकृतेनैव मुखेन विचचार सः । एकादास्य शिरः पौच्छं मार्गे कष्टमवापतत् ॥ ५॥
For Private and Personal Use Only