SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। ततः स राज्ञा वृत्तान्तं स्वयं पृष्ठोऽनुबन्धतः । मूर्खः कथितवृत्तान्तो मुक्कादेशो दयालुना ॥ ६ ॥ इति चक्राह्वमूर्खाभिधं द्वासप्ततितमं कुमुमम् । [७३] हासायैवाप्यशक्यार्थप्रतिज्ञानविकत्थनम् । तदीदृशैर्मूढमार्गः संचरेत न बुद्धिमान् ॥ १ ॥ कश्चिच्च लुब्धधीवैद्यः केनाप्यूचे द्विजन्मना । ककुदं मम पुत्रस्य कुब्जमभ्यन्तरं नय ॥ २ ॥ एतच्छ्त्वाऽब्रवीद्वैद्यो दश देहि पणान्मम । ददामि ते शतगुणान्साधयामि न चेद्वचः ॥ ३ ॥ एवं कृत्वा पणं तस्माद्गृहीत्वा तान्पणानिजान् । स तं स्वेदाम्बुभिः कुब्जमरुजत्केवलं भिषक् ॥ ४ ॥ न चाशकदृजुकर्तुं ददौ शतगुणान्पणान् । को हि वक्रमजं कर्तुं शक्नुयादिह धीधनः ॥ ५ ॥ इति पणपूर्वकृन्मूर्खाभिधं कुसुमं त्रिसप्ततितमम् । [७४] न जातु प्रत्ययः कार्यः कीनाशोक्तौ कथंचन । सन्त्येवाढयाः पृथं मामकृपणाश्च तथा पृथक् ॥ १ ॥ तथा च श्रूतयां गा ... यो' तुषकाख्यो जडाशयः । कश्चिद्गान्धर्विकेनाढ्यो गीतवाद्येन तोषितः ।। २ ।। भाण्डागारिकमाहूय तत्समक्षमभाषत । देहि गान्धर्विकायास्मै द्वे सहस्र पणानिति ॥ ३ ॥ एवं करोमीत्युक्त्वा च स भाण्डागारिको ययौ । . गान्धर्विकोऽथ गत्वा तान्पणानस्मादयाचत ।। ४ ।। 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy