SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकरुपतः। [७१] अनर्थायैव शब्दैकपरोऽतात्पर्यविजडः । तथा च दासो वणिजो मूर्खः केनाप्यभण्यत ।। १ ॥ रक्षेर्विपणियन्त्रं त्वं रात्रौ गेहं विशाम्यहम् । इत्युक्तवति यातेऽस्मिन्त्रणिजि द्वारयन्त्रकम् ॥ २ ॥ विपणीतो गृहीत्वासौ दासो दृष्टमगात्तटम् । आगतोऽसौ प्रगे दृष्ट्वा विपणिं मुषितां निशि । विलपञ्च समाहूय तमाह किमिदं कतः ॥ ३॥ स्वामिस्त्वदुक्तं सर्व मे कृतं यन्त्रं तटीकृताम् । रक्षैतदिति चोक्तं ते पालितं किं मया कृतम् ॥ ४ ॥ इत्यनर्थैकफलकं मूर्खाणां चरितं महत् । [५७अ] विज्ञाय धीमता भाव्यं सदावहितचेतसा ॥५॥ इति पतियन्त्ररक्षकमूर्खाभिधमेकसप्ततितमं कुसुमम् । [७२ ] अरहस्यं निगृहन्ति गुह्यं प्रकटयन्ति च । मौाभिमानेनादत्ते मूर्योऽप्रत्ययमात्मनि ॥ १ ॥ तथा च कंचिद्गृहिणी चण्डी मूर्खमभाषत । प्रतिवेशिगृहं यास्याम्युत्सवेऽस्मि निमन्त्रिता ॥ २ ॥ तत्त्वयोत्पलमालैका नानीता चेत्ततोऽसि मे । तन भार्यास्मि ते भर्ता नाप्तो मम भवानिति ॥ ३ ॥ ततस्तदर्थ रात्रौ स राजकीयसरो ययौ । तत्प्रविष्टश्च कोऽसीति दृष्ट्वापृच्छत रक्षकैः ॥ ४ ॥ चक्राहोऽस्मीति च वदन्बध्वानीतः प्रगे स तैः । राजा पृच्छयमानश्च चक्रवाकरुतं व्यधात् ॥ ५॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy