________________
Shri Mahavir Jain Aradhana Kendra
१९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मोतिकल्पतरुः ।
तथा मूर्खा तदास्वादं स्मरन्तो भक्ष्यभोजनम् । तत्तथाभिलषन्ति स्म ते तद्दुर्बलतां गताः ॥ ५ ॥ तस्मात्प्राज्ञः सुखं वाञ्छन्सन्तोषे स्थापयेन्मनः । लोकद्वयेऽप्यसंतोषो दुःसहः श्रमदुःखदः ॥ ६ ॥
इत्यसंतोषमूर्खाभिधं कुसुमम् ।
[ ७० ] अज्ञातस्वाशया मूर्खास्तथा कार्याणि कुर्वते ।
यथा स्वपरहासः स्यात्तथा चेदं निशम्यताम् ॥ १ ॥ क्रीणाति स्मायुगः कश्चित्पणेनाष्टावपूपिकाः । तेषां च यावत्षड् भुङ्क्ते तावन्मेऽर्धतृप्तताम् ॥ २ ॥ सप्तमेनाथ भुङ्कन तृप्तिस्तस्योदपद्यत ।
ततश्चक्रन्द स जडो मुषितोऽस्मि न किं मया ॥ ३॥ नैष एकादितो भुक्तोऽपूपो येनास्मि तर्पितः । नाशिताः किं वृथैवान्ये मया मूर्खेण किं कृतम् ॥ ४ ॥ अथवा नापराधो मे कथमेनं न बाधये ।
येनासौ निहितो लोभात्सप्तमेऽत्र तले मम ॥ ५ ॥ व्यर्थ बताइं मुषितोऽनेनापूपिकदस्युना । तदसौ चेन्न कलितो लोकानेवं प्रतारयेत् ॥ ६ ॥ इत्युक्वाशु लगुडं गृहीत्वाभिययौ जवात् । तथा गते जनस्तत्र तं जघ्नुर्मिलिता इति । जइसे च क्रमातृप्तिं बोधितो विरराम ह ॥ ७ ॥
इत्यपूपमूर्खाभिधं सप्ततितमं कुसुमम् ।
For Private and Personal Use Only
१४५